________________ 358 सिद्धहैमबृहत्पक्रिया [तद्धित असंज्ञायां विषये न चेत् प्रत्ययान्तं कस्यचित् संज्ञा भवति / त्रिंशता क्रीतं त्रिंशकम् / विंशत्या क्रीतं विंशकम् / त्रिंशतमर्हति त्रिंशकः / विशकः। आईदर्थ इत्यभिविधावाकारः / असंज्ञायामिति किम् / त्रिंशत्कम् / विंशतिकम् / 1779 संख्याडतश्चाशत्तिष्टेः कः // 6 // 4 / 130 // शदन्तत्यन्तष्टयन्तवजितायाः संख्यामा डतिप्रत्ययान्ताच शब्दाच्चकारात्रिंशविंशतिभ्यां च आहेदर्थे कः प्रत्ययः स्यात् / इकणोऽपवादः। द्वाभ्यां क्रीतं द्विकम् / त्रिकम् / पञ्चकम् / 1780 बहुगणं भेदे // 1 / 1 / 40 // बहुगण इत्येतौ शब्दौ भेदे वर्तमानौ संख्यावत् स्याताम् / भेदो नानात्वमेकत्वप्रतियोगि। बहुकः / गणकः। भेद इति किम् / वैपुल्ये संवे च संख्याकार्य मा भूत् / बहुगणौ न नियतावधिभेदाभिधायकाविति संख्यापसिद्धेरभावात् वचनम् / अत एव भूर्यादिनिवृत्तिः। यावत्कम् / तावत्कम्। 1781 कसमासेऽध्यर्धः // 1 // 1 // 41 // अध्यर्धशब्दः कप्रत्यये समासे च विधातव्ये संख्यावत् स्यात् / अध्यन क्रीतम् अध्यर्धकम् / अध्यर्धेन शूर्पण क्रीतम् अध्यर्धशूर्पम् / अत्र संख्यापूर्वत्वेन द्विगुत्वे क्रीतार्थस्येकणः 'अनान्यद्विः प्लुप्' इति लुप् / कसमास इति किम् / धादिप्रत्ययविधौ न भवति। __ 1782 अर्धपूर्वपदः पूरणः // 1 / 142 // अर्धपूर्वपदः पूरणप्रत्ययान्तः शब्दः कप्रत्यये समासे च विधातव्ये संख्यावत् स्यात् / अर्धपश्चमकम् / अर्धपञ्चमशूर्पम् / इति-कतिभिः क्रीतं कतिकम् / त्रिंशत्-त्रिंशत्कम् / विंशतिविंशतिकम् / अपत्तिष्टेरिति प्रतिषेधे प्राप्ते डतित्रिंशदिशतीनामुपादानम् / अशत्तिष्टेरिति किम् / चात्वारिंशत्कम् / पाश्चाशत्कम् / साप्ततिकम् / षाष्टिकम् / आशीतिकम् / नावतिकम् / 1783 शतात् केवलादतस्मिन् येकौ // 6 / 4 / 131 // आ अहंदर्थाद् योऽर्थो वक्ष्यते तस्मिन् केवलाच्छतशब्दाद् य इक इत्येतो प्रत्ययौ स्यातां कापवादौ अतस्मिन्–स चेदर्थो वस्तुतः प्रकृत्यर्थादभिन्नो न भवेत् / शतेन क्रीतं शत्यम् / शतिकम् / शतमर्हति शत्यः शतिकः। शतं वर्षाणि मानमस्य शत्यः शतिकः पुरुषः / केवलादिति किम् / युत्तरं शतं द्विशतम् / तेन क्रीतं द्विशतकम् /