________________ 246 सिद्धहैमबृहत्मक्रिया. - [तद्धित कुञ्जस्यापत्यमनन्तरं कौञ्जिः। अकारो जित्कार्यार्थः / 1136 स्त्रीबहुष्वायनञ् // 6 / 1 / 48 // कुञ्जादिभ्यो डन्सन्तेभ्यो बहुत्वविशिष्टे वृद्धे स्त्रियां वा बहुत्वेऽपि आयनञ् प्रत्ययः स्यात् / कुञ्जस्यापत्यं स्त्री कौञ्जायनी। कुञ्जस्यापत्यानि कौञ्जायनाः / अकारो जित्कार्यार्थः / 1137 अश्वादेः // 6 // 1 // 49 // अश्वादिभ्यो वृद्धेऽपत्ये आयनञ् प्रत्ययः स्यात् / अश्वस्यापत्यं वृद्धमाश्वायनः / वृद्ध इत्येव / आश्विः / गोत्र इत्येव / अश्वो नाम कश्चित् तस्यापत्यं वृद्धमाश्विः / 1138 शपभरद्वाजादात्रये // 6 // 1 // 50 // शप भरद्वाज इत्येताभ्यामात्रेयापत्ये वृद्ध आयनञ् प्रत्यय: स्यात् / शापायनः, भारद्वाजायनः आत्रेयश्चेत् / आत्रेय इति किम् / भारद्वाजः बिदादित्वात् / / 1139 भर्गात्त्रैगर्ते // 6 // 1 // 51 // भर्गशब्दात् गर्ने वृद्धऽपत्ये आयनञ् प्रत्ययः स्यात् / भाईयणस्वैगर्तश्चेत् / भागिरन्यः / - 1140 आत्रेयाद् भारद्वाजे ॥६।११५२॥आत्रेयशब्दाद् वृद्धमत्ययान्ताद् भारद्वाजे यून्यपत्ये आयनञ् प्रत्ययः स्यात् / आत्रेयायणो भारद्वाजो युवा। आत्रेयोऽन्यः / अत्र 1141 त्रिदार्षादणिोः // 6 / 1 / 140 // बित् आर्षश्च योऽपत्यप्रत्ययस्तदन्तात् परस्य युवप्रत्ययस्य अण इञश्च लुप् स्यात् / इत्यनेनेञो लुप् / 1142 नडादिभ्य आयनण् // 6 // 1 // 53 // नडादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्ये आयनण प्रत्ययः स्यात् / नडस्यापत्यं दृद्धं नाडायनः। चारायणः / वृद्ध इत्येव / नडस्यापत्यमनन्तरं नाडिः। णकारो वृद्धयर्थः। बहुवचनमाकृतिगणार्थम् / 1143 यभित्रः // 6 // 1 // 54 // वृद्ध इति यजिओविशेषणम् / वृद्धे विहितौ यौ यजिओ तदन्ताद् यून्यपत्ये आयनण् प्रत्ययः स्यात्। वृद्धाद्यूनीतिवचनाधूनीति लभ्यते। गाय॑स्यापत्यं युवा गाायणः। वात्स्यायनः / दाक्षेयुवापत्यं दाक्षायणः। वृद्धविहितस्येबो ग्रहणादिह न भवति / उदुम्बराणां राजा औदुम्बरिस्तस्यापत्यमौदुम्बरः औदुम्बरायणि / ' अद्धाहोर्न वा' इति पक्षे आयनिञ् / गार्या अपत्यं गार्गेयः, दाक्षेयः इत्यत्र परसात् डन्याप्त्यूङः इत्येयण भवति /