________________ 1229 यद्विहितोऽस्ति तद्विधानबलादगुणाङ्गादपि प्रशस्यशब्दात् 'गुणागाद्वेष्ठेयसू' // 7 // 39 // इति सूत्रेण इष्ठेयसुप्रत्ययौ सिद्धौ। अस्यां व्याख्यायां चाप्राप्तप्रापणार्थोऽयं न्यायः / अपि च-विचित्रा सूत्राणां कृतिः, मात्रालाघवमपि उत्सवाय मन्यन्ते वैयाकरणाः, ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च / इत्यादयोऽपि न्यायप्रकारा वाग्विशेषाः सन्ति, परमेते व्याकरणसूत्ररचनायामेवोपयुज्यन्ते। पारिशेष्यादयोऽपि न्यायाः सूत्रार्थव्यवस्थापनायामेवोपयोगिनो नतु केऽपि प्रस्तुतायां प्रयोगरचनायां क्वचिदितीहोपेक्षिताः / शास्त्रान्तरेषु च यथो. देशं निर्देश इत्यादयो बहवोऽपि न्यायाः सन्ति परमत्र व्याकरणे क्वापि ते साक्षाद्युदाहृता न दृश्यन्त इति नोक्ताः // 141 // न्यायाः स्थविरयष्टिमायाः // 142 // ___ यथा स्थविरो गमनादिकार्योत्पादे तत्साधनाय यष्टिमवलंबते तदभावे तु न; तथा न्याया अपि शिष्टप्रयोगान्यथानुपपत्तावेवाश्रीयन्ते न त्वन्यथा / एकस्मिन्नपि प्रयोगादौ स एव न्याय आश्रितोऽनाश्रितश्च यद् दृश्यते तद्विरुद्धमित्याशंकां भतुमयं न्यायः। यथा. रायमतिक्रान्तानां कुलानामतिरीणाम् / अत्र 'क्लीबे' // 2 / 4 / 97 // इति ह्रस्वे सति तज्जे नामादेशे परे एकदेशविकृतमनन्यवदिति न्यायात्प्राप्तमपि 'आ रायो व्यञ्जने' // 21 // 5 // इत्वात्वं सन्निपातलक्षणो विधिरिति न्यायेन निषेधान्न स्यात् / तत्करणे ह्रस्वविघातसंभवात् / दी| नाम्यतिसृ० // 1447 // इति दीर्घावसरे तु सन्निपातलक्षणन्यायानाश्रयणानिर्विघ्नं दीर्घः सिद्धः / तथा 'वत्तस्याम् // 11 // 34 // इत्यत्र वत्तस्योस्तद्धितयोः साहचर्यादामोऽपि तद्धितस्यैव ग्रहणं प्राप्तम् / परं साहचर्यन्यायाश्रयणात् परोक्षास्थानजोऽप्याम् गृह्यते / न च तदेव षष्ठीबहुवचनस्याप्यामो ग्रहः तदा तदाश्रयणात्। ज्ञापक चास्य तत्तत्प्रयागादिषु तत्तन्न्यायाश्रयणामाश्रयणफलदर्शनम् // 142 // शिष्टनामनिष्पत्तिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद्वा सिद्धिः // 143 // शिष्टाः शेषा ये व्याकरणेन मान्याख्याता ईशा ये नामानि-निष्पत्तयः-प्रयोगाः-धातवंश्च तेषाम् / सौत्रत्वादिति / सूत्रं व्याकरणादि तत्र निर्दिष्टाः सौत्राः। लक्ष्यानुरोधाद्वेति / लक्ष्याणि पूर्वमहाकषिप्रयोगाः। सिद्धिशब्दो मङ्गलार्थः // 143 // // इति श्री वैयाकरणन्यायादर्शः समाप्तः / /