________________ 10 अर्थालङ्कारनिर्णयः भिघातः , पाटनं द्विधाकरण, पीडनं मईनं, छेदनं कर्त्तनं, भेदनं परस्परं मित्रादिवियोजनं, भावे ण्यतौ प्रहरणा नाम समन्ताद्धरणम् / सम्प्रहारेण रुधिराकर्षगमिति विग्रहः / " .. भ्रकुटी इति भ्रुवोर्मूलसमुत्क्षेपो भ्रकुटी / हस्त- इति हस्ताग्रयोरन्योन्यं निषेधः संघर्षणम् / तदु इति अत्र उ इति निपातो वितर्के / लब्धा इति लप्स्यते / न रौद्र एवं इति / अन्येऽपि रसाः सम्भवन्ति किन्तु यथा बाहुल्येन रोद्रो न तथाऽन्य इत्यर्थः / '5 युद्ध- इति विकृतं छेदनं व्यङ्ग्यादिकरणम् / सङ्ग्रामाय सम्भ्रमः शस्त्राहरणादौ त्वरा। उग्रकर्मवम् इति / उपाणि औय्यप्रधानानि शिरःकर्तनादीनि कर्माणि यत्र स तथा तस्य भावः / तस्य स्थैर्य इति / स्थैर्यमचलनम् / शौर्य युद्धादिक्रिया / स्थिति-इति स्थितिः स्थैर्यम् / वीर्य शौर्यम् / स्वजन- इति स्वजनस्य यौ वधबन्धौ तयोर्दर्शनं प्रत्यक्षेण श्रवणम् आगमेन कथाचिरातिक्रान्तयोरपि पुनरनुसन्धानेन स्मरणम् / येऽपि च इति / सत्त्वसमुत्थमित्यादेः कारिकाभागस्य व्याख्यानमिदम् / कार्यम् इति कर्त्तव्यमित्यस्य व्याख्यानमिदम् / मृदु- इति मृदुचेष्टितैरनुभावैः कार्यमिति पूर्वेणैव सम्बन्धः / यतः इति सामर्थ्यलब्ध हेतुत्वम् / तथैव इति / अन्तरितयोरपि संबन्धो दर्शितः / पुरुषार्थ- इति कार्यमित्यस्य व्याख्यानमिदम् / यत्र तु इति / भयानके परानुग्रहाय इति / परें हि तं राजगतं क्रोधादिं दृष्ट्वा भीताः सन्तो मर्यादया वर्तन्त 15 इति / शमस्थायी इति / तत्त्वज्ञानात्मज्ञानापरपर्याय आत्मस्वभाव एव शमशब्देन मुनिना व्यपदिष्टः / यदि तु तत्त्वज्ञानोत्थित निर्वेदशब्देन व्यपदिश्यते ततोऽपि न कश्चिद् बाधः सर्वभावान्तरभित्तिस्थानीयत्वात् / स्थायितमश्चासौ इति तत्त्वज्ञानार्थ- इति शमापरपर्यायतत्त्वज्ञानार्थस्थायिभावात्मक इत्यर्थः / रत्ने- इति / सिततरसूत्रस्थानीये आत्मस्वरूपे रत्नस्थानीया रत्यादय इत्यर्थः / तथा भावेनापि इति उपरञ्जकत्वभावेनाऽपि / 20 तथा हि- शान्तस्य जनकादेर्यदि कुतोऽपि निमित्तादुत्साहादयो जन्ममध्ये कदाचिदुद्भवेयुस्ततोऽपि न ते तदात्मस्वरूपं शमलक्षणमन्यथा कत्तुं समर्था इति न्यायसिद्धमेतत् / . लोकोत्तरानन्दधनम् इति / एतदेकं हृदयस्य विशेषणम् / अभिधानम् इति / शृङ्गारहास्येत्यत्र श्लोके सर्वप्रकृतितेति, स्वं स्वं निमित्तमासाद्य शान्ताद्भावः प्रवर्त्तते / पुनर्निमित्तापायेन शान्त एव प्रलीयते // इत्यादिना हि सान्तरप्रकृतित्वमुपदर्शितम् / भावः इति रत्यादिः / वित्रासितकम् इति / संज्ञायां कन् / व्यक्ति -इति अभिव्यक्तिरित्यर्थः / तान्त्रिक -इति / 1. आप्तवचनेन //