________________ 310 कल्पलताविवेके रत्यादीनाम् इति चतुर्णाम् / हासादीनाम् इति पञ्चानाम् / एतावताम् इति नवानाम् / अभीष्टवियोग- इति शोकसंवित् / अशक्तौ तु इति अपरिचित- इति चोभयप्रकारा भयसंवित् / किञ्चिद् इति जुगुप्सासंवित् / किश्चिच्च इति निर्वेदप्रायभावसंविच्चोपदर्शिता / अस्थायिता इति व्यभिचारिता / उद्बोधका इति न तु 5. जनकाः स्थायिभावानिति उपनेष्याम इति शेषः / ये स्थायिनो भावा लोके चित्तवृत्यात्मानो बहुप्रकारपरिश्रमप्रसवनिबन्धनकर्तव्यताप्रबन्धाधायिनस्तानपि नाम रसत्वं विश्रान्त्येकायतनत्वेनोपदेशदिशा नेष्यामः / सामान्यलक्षणशेषभूतया इति / विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्यादिना / / यथा बीजाद्भवेद्वृक्षो वृक्षात् पुष्पफलं पुनः / तथा मूलं रसाः सर्वे ततो भावा व्यवस्थिताः / / इति विशेषलक्षणनिष्ठया इति / तेषामुत्पत्तिहेतवश्चत्वारो रसा इत्यादिना ग्रन्येन यद्विशेषलक्षणं प्रपञ्चित तत्परयेत्यर्थः / गुण- इति / एकस्य प्रधानतायामितरयोर्गुणभाव इत्यादिना / अर्थः इति वासनात्मतया स्थितः स्थायी / शङ्ककादिभिः इति आदिग्रहणा15 ल्लोलटप्रभृतिभिः इति पश्चानुपूर्व्या लभ्यते / असत इति स्थाय्यनुकरणस्य वस्तुसत इति स्थायिनः / शल्यभूतम् इति / स्थाय्येव रस इत्येवमसम्भवदर्थसमर्पणात् / औचित्याद् इति / औचित्यमात्रात् / औचित्यम् इति / यत उद्यानादीनां विभावादित्वावलम्बन ततः स्थायिनो रसीभावौचित्यमित्यर्थः / तत्स्थायी इति तस्मिन् स्थायिनि / एतेषाम् इति तारतम्याश्रयेणावबोधज्ञानानुभवेत्यनेकशब्दव्यपदेश्यानां संवेदनानामित्यर्थः / 20 अर्जनादि इति / अर्जनादि विघ्नान्तरोदयेन ताटस्थ्यहेतुकाऽस्फुटत्वेन विषयावेशवैवश्येन च कृतो यः सौन्दर्यविरहस्तस्मात् / स्वात्मैकगतत्व- इति / विषयावेशवैवश्यस्य / परगतत्व- इति ताटस्थ्यास्फुटत्वस्य / तद्विभावादि इति च विनान्तरोदयस्याऽसम्भवे हेतवो योजनीयाः पश्चानुपूर्व्यपि हि समाश्रीयमाणा पैदवाक्यप्रमाण 25 संयोगबलोपनतैवेयं चर्वणा इतरसंवेदनेभ्यश्च विशिष्टा / किं तर्हि इति / यदि न जनका न च ज्ञापकास्तर्हि किमेतत् / एवम् इति अप्रमेयरूपत्वम् / तत एव इति / यतोऽवस्तु 1. शम ख. एव // 2. विभावादि ख एव // 3. यथा पुष्पफलं मूलं तथा रसा मूलं कारणं प्रयोजनस्थायिनां निरूपणाया इत्यर्थः // 4. रसानां मध्यात् // 5. उपचारेण // 6. व्याकरणम् // 7. मीमांसा // 8. तर्क //