________________ कल्पलताविवेके संयोगाद्गोप्रतीतिस्तथा विभावादिसंयोगादतिप्रतीतिः / विशेषेण त्वयं यथा सन्निवेशविशेषावस्थितहरितालादिसंयोगाद्वानुकारप्रतीतिस्तथा विभावादिसंयोगाद्रत्यनुकारप्रतीतिरित्येवमर्थद्वयं मनसि परिकल्प्य घटमानसंयुज्यर्थविषयनिर्विशेषणहरितालादिशक्तिप्रदर्शनेन प्रथमपक्षं मूलत एव निरस्य यथावस्थितदृष्टान्तवस्तुतत्त्वविवेकपुरःसरं दृष्टान्तदान्तिकवैषम्योपदर्शनेन 5 द्वितीयमपि पक्षमधिक्षिपतीति / सिन्दरादिभिः इति हरितालस्य वा सिन्दूरस्य वा मुख्यत्वं भवतु न काचित्क्षतिः / नैवम् इति / यथा सिन्दूरादिसमूहविशेषो गोसदृशताप्रतिपत्तिविषयो न तथेत्यर्थः / तेन इति / स्थायिभावान्न सत्त्वमुपनेष्यामः / स्थाय्येव तु रसीभवेदित्यादिषु मुनिवचनेषु विरोधो मा भूत् / प्रामाणिकजनश्च दूषणाविष्करणामौखर्येण मा बाध्यतामिति सामग्रीलक्षणकारणोपचारःस्थायिलक्षणकार्ये साङ्ख्यदृग्दुर्विदग्धेन येन विधीयते तस्यैवं. 10 विधसाहसविधातुः किमाचक्ष्महे इत्यर्थः / तन्त्र-इति नाट्यतन्त्रम् / रसो न प्रतीयत इति रसस्य प्रतीत्यभिव्यक्ती मुख्यतया उत्पत्तिश्चोपचारेण भट्टतोतस्याभिमता / एष एव च पक्षो यथोपाध्यायं शिष्या इत्याचार्यस्याऽनुमतोऽत एव च प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इत्यादिना तत्र तत्र रसस्य प्रतीत्यादिकमाचार्यः स्वयं व्यवस्थापयिष्यतीति शङ्ककादिमतनिरसनानन्तरमुपाध्यायमतं न प्रदर्शितम् / 15 करुणे दुःखित्वम् इति / ततः करुणप्रेक्षासु पुनरप्रवृत्तिर्भवेदित्यर्थः / किश्च रामादिचरितमयात् काव्यादसौ प्रतीयते / ततश्च स्वात्मगतत्वेन प्रतीतौ स्वात्मनि रसस्योत्पत्तिरेवेत्यभ्युपगतं स्यात् / सा चायुक्ता इत्याह / न च सा इति / अविभावत्वाद इति सामाजिकं प्रतीत्यर्थः / न च स्वकान्तास्मरणं मध्ये संवेद्यत इत्याह- स्वकान्ता इति / कान्तात्वं साधारणं वासनाविकाशहेतुर्विभावतायां प्रयोजकमिति चेद्देवतावर्णनादौ 20 तदपि कथमित्याह- देवतादौ इति / समुद्र- इति / अलोकसामान्यानां च रामादीनां ये समुद्रसेतुबन्धादयो विभावास्ते कथं साधारण्यं भजेयुः / न चोत्साहादिमान् रामः स्मयतेऽननुभूतत्वादित्याह- न च तत्त्वतः इति / सरसता इति रसोपजनः / दूषणम् इति जातावेकवचनम् / तेन स्वगतपरगतत्वविकल्पपुरःसरं करुणे दुःखित्वं स्यादित्यादीनि दृषणानीत्यर्थः / 25. तस्माद् इति / यतो न प्रतीयते नोत्पद्यते नाभिव्यज्यते काव्येन रसः / किन्त्वन्य शाब्दवैलक्षण्यं काव्यात्मनः शब्दस्य त्र्यंशताप्रसादात् / तत्राऽभिधायकत्वं वाध्यविषयं भावकत्वं रसादिविषयं भोगकृत्त्वं सहृदयविषयमिति त्रयोंऽशभूता व्यापाराः / तत्राभिधाभागो यदि शुद्धः स्यात्तत्तन्त्रादिभ्यः शास्त्रन्यायेभ्यः श्लेषाद्यलङ्काराणां को भेदः / 1. निवर्त्यर्थ ख एव // 2. निर्वर्तनरूप // 3. चर्वणयोत्पत्तिर्यतः // 4. अभिनवगुप्तस्य // 5 शास्त्राख्यायिकादि // 6. काव्यस्य // 7 यदि रसविषयं भावकत्वं न स्यादित्यर्थः //