________________ 280 कल्पलताविवेके णया एकहायन्या पिङ्गाक्ष्या सोमं क्रीगातीत्यादि ग्राह्यम् / क्रिया-इति / क्रियया आनयेत्यादिकया / एकवाक्यवशाद् इति / वाच्यलक्ष गतृतीयप्रमाणसामर्थ्यादित्यर्थः / एकार्थ इति / एकोऽर्थो नीलोत्पललक्षणः / संसर्गः इति परस्परमित्यर्थः / अन्ययोग-इति करणे तृतीया / वध्यघातक-इति वैपरीत्यसम्बन्धनिबन्धनेत्यर्थः / 5 बाध्यविज्ञान-इति। बाध्यविज्ञानं शुक्तिकायामिदं रजतमिति रजतप्रतिभासः, बाधकविज्ञानं नेदं रजतमिति शुक्तिकैवेयं परमार्थसतीत्यर्थः / युक्तोऽयम् इति / रसस्य वाक्यार्थीभावे ये रसवदलङ्कारम् उद्भटादयः प्रतिपन्नास्तान् प्रति ध्वनिगुणीभूतव्यङ्ग्यवादिना औचार्येण “भिन्नो रसाधलङ्काराद्” इति “एते च रसवदाद्यलङ्काराः” इति च वदता स्वाभिप्रायप्रतिपादनं यद्विहितं तदुपजीव्यपरस्येयमुक्तिः / उपलक्षणीभूतम् इति / 10 वाक्यार्थीभावमनापन्नमङ्गभूतमप्रधानमिति यावत् / तेन मुख्यवृत्त्यैवोदात्तमेतत् , न रसवदलङ्कारापवादत्वेनेत्यर्थः / अन्यत्र तु रसवद् इति / एतत्पर्यन्ता भट्टोद्भटादीनामुक्तिः / ___ भगवतः इति / वराहवपुषत्रैलोक्योद्धरणोयुक्तस्य / अन्यस्मिन् विषये इति / यथा हि तत्वारोपादिलक्षणा रूपकादयोऽलङ्कारा यत्र कुत्रचिदपि विषये दृश्यन्ते तथा नायमृद्धिमद्वस्तुवर्णनलक्षण उदात्तालङ्कारो विषयान्तरे समृद्धिविरहिते समृद्ध्यसमृद्धिविरहिते 15 च वस्तुनि दृश्यते / ऋद्धिगुगविशिष्टं वस्त्वेवालङ्कार इत्युक्तं, तच्च कथं वस्त्वन्तरधर्मतां प्रतिपद्येत, असम्भवात् / अलङ्कारत्व-इति / यथा हि ऋद्धिमद्रस्तुवर्णनमयमलङ्कारस्तथा तद्रहितवस्तुवर्णनमप्यलङ्कारः कश्चित् प्रसजति / न वाच्यम् इति / भट्टरुद्रटेन युगपद्या गुणक्रियाः स त्वन्य इत्यत्र लक्षणे, व्यधिकरण इति एकस्मिन् देशे इति च व्यधिकरणे वा यस्मिन्नित्यादिना 20 यत् प्रतिपादितं तन्न वक्तव्यमित्यर्थः / यत्रैकत्र इति / यत्र समुच्चये एकत्राधारे शब्दोपात्ते प्रतीयमाने वाऽनेक वस्तु परं स्यादसौ समुच्चयः / तत्र सूत्रकृदुदाहरणान्यग्रे प्रदर्शयिष्यते / सम्प्रति तु वृत्तिकदेव विनेयविशेषव्युत्पत्त्यर्थं स्वयमुदाहरणजातं किञ्चित् प्रदर्शयितुमाह-तत्र साधु इति / उमा वधः इति / अत्र साधुद्रव्यसमुच्चयः / क्लीब इति / अत्रासाधुगुणसमुच्चयः / 25 चित्तनिर्वृत्ति-इति / अत्र सुखावहद्रव्यक्रियासमुच्चयः / राज्यभ्रंशः इति। अत्र दुःखावह क्रियासमुच्चयः / एवमपि इति / द्विप्रकारेऽपि समुच्चये लक्षिते / स्त्रीणां वैरूप्यम् इति / अत्र स्त्रीसाधुपण्डिताः सन्तो, दुर्जनाश्चासन् / वैरूप्यदारिद्रयाल्पायूष्यसन्ति, आधिपत्यं च सदिति सदसयोगः / किमेतदर्थेन इति / अयमभिप्रायः / सतोरसतोश्च योग इति प्रकार 1. आनन्दवर्द्धनेन ख. पुस्तके एव //