________________ अर्थालङ्कारनिर्णयः हेतुलक्षणं काव्यलिङ्गमिति / धूमादित्यस्माद् व्याप्यादिदर्शनयुक्तात्त हेतोविलक्षणम् / एतत् स्वरूपं च प्रागेवाभिहितमस्तीत्यत्रैव काव्यलिङ्गेत्यादिना प्रतिपादयिष्यते / अन्यत्र रस इति / अनुभवस्येत्यनेन सम्बध्यमानोऽन्यत्र शब्दो रसाद्यर्थः केनचित् यद्विवृतस्तन्न युक्तमित्यर्थः / कान्तेश्च इति / कान्तिच्छाययोः पर्यायत्वे कान्तेः छायेति धर्मधर्मिसम्बन्धो न घटते इति भावः / अविरल इति / सादृश्यसम्बन्धोपचारे हि रूपकमुक्तम् , अयं तु कार्यकारण- 5 सम्बन्धोपचार इति हेतुरेव / भावान्तरस्य इति / भावान्तरस्वरूपस्याभावस्वरूपस्य वा कार्यस्य जन्यत्वे इत्यर्थः / भावाभाव इति कार्यविशेषणमिदम् / कार्यादुत्तरकाल-इति / तत् सहजकार्यानन्तरजहेतुद्वये गौणव्यवहारोपदर्शनमिदम् / शेषेषु हि दूरकार्यादिषु अननास्त्रत्वादिर्गौणोपचारः स्फुट एव प्रतीयते / . उदासीनः इति अनाविशन् / लक्षणं ज्ञापकस्त्विनि तुशब्दः कारकाद् व्यतिरेके / 10 लक्षणमिति ज्ञापक इति च पर्यायशब्दौ / यथा वेति / गौगवृत्तिव्यपाश्रयास्तावत् कार्याः / अथवा यथा वैचित्र्यं कर्तुमीशते तथाऽन्यथाऽपि कार्या इत्यर्थः / चन्दन इति / अत्र पवनस्य पथिकप्रमाथसाधनक्रियायां कर्तृत्वेनावेशान्निवर्तको नामायमाविष्टक्रियो हेतुः / ताम् इति दर्शनक्रियाम् / आत्मन्येव इति / क्रियालक्षण एवात्मनि क्रियालक्षणस्य क्रियेति दर्शनक्रियाऽनाविष्टः / इतिशब्द-इति / इतिलक्षणः शब्द इतिशब्दः / कण्ठे काल इत्यादीनि 15 इति / अत्र कण्ठेकाल इन्दुशेखर इति च विशेषणे अविवक्षिते / इत्थम्भूतलक्षणतृतीयान्तमेव विशेषणद्वयमत्रोदाहरणत्वेन विवक्षितम् / - सम्बन्धस्य इति / लक्ष्यलक्षकभावात्मकस्य / लक्ष्यवाचिनः इति / उभयत्र प्राप्तावपि ज्ञाप्यमानवाचिनो गोनासादेः / लक्षणवाचिनो लक्षकोत्पातरूपा गदरज इत्यादेः / कथं तर्हि तृतीया न श्रूयते इत्याह-एकयैवेति / विभक्त्येति चतुर्थीलक्षणया / 20 वस्तुनः इति उद्भेदलक्षणस्य / प्राग् इति उद्भेदाभावाभावः / शब्देन इति / मदेन मानेन च ऐरावणमुखे हरिहृदये च निवासप्रीतिरुज्झितेति भङ्ग्यन्तररचितशब्दरित्यर्थः / यदेवोच्यते इति भङ्ग्यन्तरेणेत्यर्थः / यथा तु इति / येनैकघनरूपतात्मकप्रकारेण तु प्रतीयते व्यङ्ग्यम् , न तेनैव प्रकारेण वक्तुं शक्यते। क्रमभाविविकल्पप्रभवानां शब्दानां तथाऽभिधानशक्तेरभावात् / 25 तदाकारतयैव इति / अशेषविशेषावच्छिन्नस्वलक्षणाकारतयैवानुभवस्योत्पत्तेः / व्युत्पत्ति-इति / व्युत्पत्तिरिदं पदमेतस्यार्थस्य प्रतिपादकमित्येवंरूपा / तयोः इति गुणद्रव्ययोः / संसर्गः इत्यनेन वक्ष्यमाणेन मुख्यसम्बन्धः / द्वितीयादि-इति / आदिग्रहणेन तृतीयादिश्रुतयो लभ्यन्ते / अत एव च नीलमुत्पलमानयेत्यादावित्यत्रापि आदिग्रहणेन अरु