SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 274 कल्पलताविवेके इहापि इति / यत्र हिशब्दोक्तिरस्मिन्नित्यर्थः / अर्थः इति समर्थ्यसमर्थकभावलक्षणः / रागिणि इति अत्र बाणविषयकृष्णव्यापारे विशेष प्रस्तुतेऽप्रस्तुता समर्थकविशेषरूपनलिनविषयदिवसव्यापारसमर्थिता सतां परोपकाख्यसनिता सामान्यभूतोपवर्णिता / ततश्च कण्ठोपात्तसमर्थ्यसमर्थकापेक्षया अर्थान्तरन्यासः, प्रतीयमानप्रस्तुतपरत्वेन चाऽप्रस्तुत5 प्रशंसेति / यदाह इति उद्भटः / सामान्यस्य इति विशेषरूपदिवसव्यापारसमर्थितस्य / विशेष इति / विशेषः कृष्णव्यापारः / सामान्य-इति दिवसव्यापारसमर्थितसामान्यापेक्षयेत्यर्थः / न वा ण इति / तत् कथं तयोर्बिम्बप्रतिबिम्बभावः शङ्कितः / सद्व्यापारकृष्णव्यापारयोर्बिम्बप्रतिबिम्बत्वाभावादयं दृष्टान्त उच्यत इत्याशयः / सैवेति न कृष्णव्यापारः / ततः इति हिशब्दात्, योऽसौ हेत्वर्थप्रकाशस्तस्मात् / 10 उक्तस्य इति हिशब्देन / व्यज्यत इति हिशब्देन / अर्थादिति बिम्बप्रतिबिम्बभावोपनिबन्धसामर्थ्यात् / भेदत्रयम् इति उदाहार्यमित्यर्थः / एवमुत्तरत्र / तेन षोडशप्रकारोऽर्थान्तरन्यास इत्यर्थः / न ह्यत्र इति / औपम्यभेदत्वमेवास्य प्रतिज्ञातमिति भावः / अज्ञाते यस्य इति अस्वजनस्यासमानजातीयस्येत्यर्थः / अत्र इति उभयोः / प्रधानभूतस्य यदिति प्रकृतस्य वाच्यार्थस्य यत्तात्पर्यम् / यः परमार्थः सोऽपि क इत्याह-यत्परत्वेन इति / यस्य 15 परमार्थस्य तत्परत या तदप्रस्तुतं वाक्यार्थान्तरं प्रवृत्तं स इत्यर्थः / तस्माद् इति / स्वैस्मिन्नपि परमार्थवृत्त्या विद्यमानात् मुख्यतात्पर्यात् साधारणस्वभावाद्धेतोः प्रकृतवाक्यार्थेन सह यत्साम्यं तस्मादित्यर्थः / कथम् इति / तत्सादृश्यादपि वाक्यार्थान्तरविन्यासः कथमर्थान्तरन्यास इति प्रश्ने सत्याहसमर्थक-इति / तत्सादृश्यात् समर्थकत्वेनोपनिबद्धः सन् स तथा भवतीत्यर्थः / तहेति 20 हृदयदयित एव / व्याघातः इति / एकतरप्रतिबन्धरूपः / केवल इति। परिहारसम्भवो हि त्रिष्वप्यस्ति / भेदभावादिति / श्लेषवशादासादितस्वभावो यः प्रभेदः स कथं श्लेषाद्भिन्नो भवेत् / भिन्नयोरेव ह्यन्यत्र लब्धसत्ताकयोरेकत्र सन्निपाते सङ्करत्वं वक्ष्यतेऽतो नात्र सङ्करः / विकल्पस्य इति / गुणस्य वा क्रियाया वेत्येवंरूपस्य / समुदायः इति गुण क्रियालक्षणः / व्यर्थ-इति विरुद्धार्थलक्षणः / न पुनर्मन इति / अनेन परिहारो दर्शितः / 25 इदम् इति अनेनोदारचरितत्वादितिपर्यन्तो वाच्यार्थः परामृश्यते / अत एव इति / यत एवावश्यंभाव्यपि कार्य न दृश्यते। उदाहार्यम् इति / तनुरियमित्यत्र विषमनाम्नोऽलङ्कारस्य लक्षितत्वादित्यर्थः / एकार्थत्वाद इति / अकुब्जत्वं धवलत्वं च न हि चेतस'छाययाऽपि सङ्गच्छत 1. सूर्याचन्द्रयोः // 2 अमुख्यात्मनि / ख. // 3. विरोधः ख पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy