________________ 258 कल्पलताविवेके श्लिष्यते / यथा जीवजीवक इत्यादौ / भेदाभेदाभ्याम इति / यत्र पूर्वोक्तमुभयं भवति / अलङ्कारः इति उपमादिः। एतदेव वक्ष्यते किं तद् इत्यादिना / करोति इति / अत्र कर्तृ स्तत्र तैर्व्यपदेश उपपन्नः / यत्र तु श्लिष्टोपनिबन्धस्तत्र सत्स्वपि उपमादिषु श्लिष्टालङ्कारे5 णैव व्यपदेशोऽनुगुणः / सर्वालङ्कारापवादत्वेन श्लिष्टस्य व्यवस्थितेरिति हि तत्र तत्र वक्ष्यते / वाक्यान्तरपतिमा वा इति / अलङ्कारान्तरपर्यवसायित्वेनालङ्कारान्तरप्रत्याशया सङ्ग्रहीताऽप्युपक्रमावस्थायामलङ्कारान्तरस्याप्रतीतेर्वाक्यार्थान्तरप्रतिभा पृथगुपदर्शिता / उपक्रान्तस्य इति प्रस्तुतस्य / विरोधाद्यलङ्कारान्तरम् इति / वाक्यार्थान्तरद्वारकम् / आदिग्रहणाद्रूपकपरिग्रहः / 10 अत्रोपमाप्रतिभा इति / कामिनीलक्षणप्रकृतार्थप्रतीत्यनन्तर शब्दशक्त्यन्तर सामाक्षिप्तं प्रावृड्लक्षणमर्थान्तरं प्रतिभाति इति वाक्यार्थान्तरप्रतिभायामप्युपमालङ्कारपर्यवसायित्वापेक्षयोपमाप्रतिभैवोपवर्णिता / न्यायश्चायमन्यत्राऽप्यनुसरणीयः / एतच्च वाक्यार्थान्तरप्रतिभायां पूर्वत्रोदाहरणीयमप्यनन्तरमेवाभिधित्सितसमासोक्त्यलङ्कारत्वाक्षेपे भ्रमिमरतिमित्यादिना समानयोगक्षेममित्यत्रोदाहृतम् / प्रकृतार्थम् इति / 15 प्रकृतार्थ वाक्यं प्रकृतार्थनिष्ठत्वेन वाक्यार्थस्योपक्रान्तत्वात् समानविशेषणताद्वारेणा क्षेप्यमर्थान्तरं नाक्षिपत्यपि तूपक्रम एवात्राप्युभयार्थप्रतिपत्तिः / विनिबन्धनान्तरम् रूपकशब्दवाच्यत्वं रूपकव्यपदेश इति यावत् / जीवञ्जीवकः इति / अत्र रूपकप्रति भोत्पत्तिहेतुः श्लेषः / प्रकृताप्रकृतोभयनिष्ठतया इति / प्रकृतार्थद्वयविषयोऽप्रकृतार्थ20 द्वयविषयः प्रकृताप्रकृतार्थविषयश्चेति त्रिधा शब्दश्लेषः / एवमर्थश्लेषः / उभयश्लेषश्च प्रत्येक विधेति नवधा श्लिष्टम् / पुनश्चावयवानां भेदेनाभेदेन भेदाभेदाभ्यां प्रत्येकं त्रैविध्ये सप्तविंशतिधा श्लिष्टं प्रागुक्तमवगन्तव्यम् / समानप्रयत्नोच्चायशब्दनिबन्धनायाः इति / तुल्यकालमुक्तिरेकप्रयत्नोच्चाय रे व शब्दैः सम्भवतीति त एव निबन्धनमस्याः / एतेन इति / प्रकृताप्रकृतोभयरूपाणामर्थानां सहोक्तेः समानप्रयत्नोचार्यशब्दनिबन्धनत्वेनेत्यर्थः / अञ्ज25 सत्ताद इति / गुगादिशब्दा अभग्ना अपि स्वभावतोऽर्थद्वयवाचित्वेनैकप्रयत्नोच्चार्या एव भवन्तीत्यञ्जसत्वम् / यदा हि सत्कविप्रयत्नेन भज्यमाना अर्थद्वयवाचितां प्रतिपद्यन्ते 1. वाक्यार्थान्तरप्रतिभा वेति ग. 2. // 2. अप्रकृतार्थ ग 2 // 3. प्रकृतार्थमिष्टत्वेन ग. 2 // 4. -प्रकृति क. // 5. विरं ही धनेति विरं ही धननिचयमित्येष यः कर्मभावस्तेन ग. 2. पुस्तके अधिकः पाठः // 6. एवमर्थ लेषश्च ग. 2. // 7. भेदाभेदेन ग. 2. //