SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः 257 पुरस्सरं त्रैविध्यदर्शनपरतया यदन्याख्यातस्तदपि नोपपन्नमित्याह-श्लेषादेवार्थ -इति / को हि विशेषः इति / यथा कमलमिव मुखं मनोज्ञमित्यत्र मनोज्ञतालक्षणोऽर्थः कमले मुखे चानुगच्छति, एवं कृष्णः पट इव मधुसूदन इत्यत्र कृष्णशब्दो देवताविशेषे वर्णविशेषवति चार्थेऽनुवर्तत इति न कश्चिद्विशेषः / अर्थश्लेषेऽपि इति / असम्भाव्यसम्भावनायामपिशब्दः, गम्यमानो लीन इति गम्यमानत्वादेव लीन इत्यर्थः / शब्दाः इति कृष्णा- 5 दिशब्दा इत्यर्थः / स्वरूपतः इति / शब्दार्थश्लेषविषयरूपद्वयविरहितात् स्वरूपमात्रादित्यर्थः / अनुगमाभावोऽभिसंहितः इति / अनेन हि शब्दानुगमाभावादिति यदुक्तं तदन्तरितम् / तस्य इति शब्दस्वरूपमात्रस्येत्यर्थः / स्वाभिधेय- इति प्रेकृतस्वाभिधेयाङ्गतयेत्यर्थः / अर्थक्रियासु इति / उपमानोपमेयभावलक्षणासु / तन्नान्तरीयकतया इति / तच्छब्देनार्थः परामृश्यते / फलवत्त्वेन इति / सहृदयमनश्चमत्कारः फलमत्र / 10 फलवदर्थत्वेन इति / फलवच्छब्दप्रयोजनत्वेनेत्यर्थः / तस्य इति अर्थप्राधान्यस्य / अर्थश्लेषेऽपि शब्दगतवक्रत्वेऽभ्युपगम्यमाने विघटितायामुभयालङ्कारतायां श्लेषस्य शब्दालङ्कारतैव भवेत् , ततश्चोक्तेभ्यः शब्दालङ्कारमात्रेभ्यो यमकादिभ्यः कोऽस्य विशेष इति मुग्धबुद्धीनां व्याख्यातृगामाशङ्कामाह-अथैवम् इति / उच्यते इति / समाधीयते / एकरूप- इति / इह श्लिष्टलक्षणानुवादवेलायामेकं रूपं स्वभावो यस्य तस्यैक 15 रूपस्यैकस्यैव शब्दस्य न द्वयोः / अनुप्रासलक्षणयोजनावसरे त्वेकं साधारणं रूपं यस्य सदृशवर्णस्य शब्दस्य शब्दयोर्वोपादानमितीदं श्लेषच्छायया व्याख्येयम् / यद्यपि सदृशशब्दोपादानमपि श्लिष्टरूपताप्रतिषेधे हेतुर्भवति, तथापि यथाऽथ प्रति पारतन्त्र्याभावश्चमत्कृतिकारी तथा नेदमिति स एव तत्र निमित्तत्वेनोपदर्शयिष्यत इति तदपेक्षयाऽसारत्वादनुवादरूपतयैवेदं प्रदर्शितमिति नासूयितव्यम् / शब्द- इति / शब्दभेद एकार्थत्वाभासश्चेति / 20 हेतू द्वौ इति / इति स्थितमिति किं कुर्मः / एकस्मादेव च शब्दादर्थद्वयस्य प्रतीतावर्थश्लेष इति युष्मदव्याख्यायां न केवलमर्थश्लेषस्योपमात्वप्रसक्तिः, शब्दालङ्कारताऽपि दुर्निवारा / न च न भिन्नो यमकादिभ्यः श्लेष इत्यर्थः / पूर्वमेकमेव कृष्णादिशब्दमङ्गीकृत्य दूषणानि प्रदत्तानि / सम्प्रति तु तस्यैकत्वमेव न घटत इत्याह- यच्चैक एव इति / अवयवानाम् इति / धर्माणां भेदेन इति / यत्रो- 25 भयधर्माः प्रकृताप्रकृतधर्मिभ्यां भेदेनैव श्लिष्यन्ते / यथा उन्नतः प्रोल्लसद्धारः इति / अभेदेन इति / यत्र प्रेकृतोऽप्रकृतो वा धर्मी अप्रकृतधर्मेण प्रकृतधर्मेण वाऽभेदेनैव 1. प्रकृति- ग 2. // 2. रूपस्यैव ग. 2. // 3. यस्य तस्य साधारणरूपस्य क. ग. 2. // 4. प्रकृताभ्यां धर्मिभ्याम् ग. 2 // 5. यत्र प्रकृतो वा धर्मी अप्रकृतधर्मेण प्रकृतधर्मेण वाऽभेदेनैव श्लिष्यते / ग. 2. //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy