________________ अर्थालङ्कारनिर्णयः 255 पंयत एव / आहार्यताम् इति आहार्यावयवनामित्यर्थः / इन्द्रस्त्वम् इति / अत्र बाहू रसना च सहजाः खड्गस्वाहार्य इत्युभयावयवता / अर्थयोः इति उपमेयोपमानयोरवयविनोः / गण्डफलकैः इति / गण्डा एव लघूनि फलानि तैः / अत्र प्रमदाः शाब्द्या वृत्त्या लताभिर्न रूपिता ईल्येकदेशिता / विशेषोपमा इति / अविभक्तत्वमत्र विशेषः / / विच्छित्तेः कारणम् इति / उपशोभाया निमित्तभूतं यत्तदेव न पुनर्जेयत्वप्रमेय- 3 स्वादिना यत्तदित्यर्थः / विवर्तनम् इति / विशेषेण वर्तन रूपकस्येत्यर्थः / प्रतीत्यन्तर इति / अर्थान्तरप्रतीतिविधायीनि यानि विशेषणानि ये च विशिष्टे लिङ्गे तेषां सामर्थ्यात् / उपलक्षणत्वेन वा इति / यदि वा तया रात्र्या उपलक्षणभूतया न लक्षितमिति सम्बन्धः / न ज्ञातम् इति लोकेनेत्यर्थः / अनन्तर इति तेन न लक्षितं चेत्यर्थः / अत्र च इति / अनयोश्चार्थयोर्मध्यात् पश्चाद्गतनायकचुम्बनोपक्रमलक्षणो योऽर्थस्तस्मिन् रूपकं प्रतीयमान- 10 शब्दभूयिष्ठरूपक-इति / गौणवृत्तिव्यपाश्रयाणां शब्दानां समासादिमात्रभणनादत्र प्राधान्यं नत्वर्थस्य, क्रियासमावेशादेरभावादिति प्रधानैः शब्दैरेव व्यपदेशः / समस्तम् इति समासवत् / व्यस्तम् इति अकृतसमासम् / प्रकृतसमासादिशब्दैः इति / प्रकृतसमासैः प्रकृतासमासैः प्रकृतसमासासमासैः प्रकृतविशेषणैगणिवृत्तिव्यपाश्रयैः 15 शब्दविरचितम् इति / प्रकृतम् इति / परम्परादिभिर्विकारस्याभावात् स्वाभाविकमित्यर्थः / अकस्मादेव इति / अत्र मुखस्य विटपिरूपणमशाब्दमित्यसमस्तवस्तुविषयता। तस्य तु इति नन्दनशब्दस्य / अपहियते इति क्रियासमावेशस्याभावात् / शब्दार्थभूयिष्ठरूपके इति / अनुमन्यामहे तावद्विविक्ते अपि शब्दभूयिष्टार्थभूयिष्ठते रूपकस्य, शब्दार्थभूयिष्ठता तु कथञ्चिदपि न मनसि संवदति / को हि विशेषस्ताम्राङ्गलिदलेत्या- 20 देरर्थप्रधानात् सोहइ विसुद्धत्यादेः, विशेषगविशिष्टस्य विशेष्यस्योभयत्रापि समान एव हि क्रियासमावेशः / किञ्च यदलङ्कारान्तरसम्पाते सङ्कीर्णत्वमस्य विशेषतो विनिर्दिश्यते, तदपि न सहृदयहृदयावर्जकम् / उपमादीनामपि हि तन्निर्देश्यं स्यात् / न च सङ्कीर्णत्वाऽपरनामिका संसृष्टिरपि पृथग् वक्तव्या भवेत् / तत् किमुच्यते यथा तथाऽपि भेदप्रपञ्चनैकरसिकस्यास्य / राजराजो ह्यसाविति / वणराइ केसहत्था इति / अत्र धूमोत्पीडानां वनराजि- 25 केशहस्तत्वेन कुसुमायुधसुरभिसञ्चरद्ध्वजपटत्वेन शशिकरमुहूर्तमेधत्वेन तमःप्रतिहस्तरूपेण च रूपितानां निराधाराणामेव शब्दप्राधान्यमर्थप्राधान्यं चावधार्यत इति निराधारं 1. -युज्यते ग. 2. // 2. इत्येकदेशिताः ग. 2. // 3. मुख - ग. 2. // 4. उपमान ख पुस्तके एव // 5. -श्य - ग. 2. // 6. ह्यसावेति क //