________________ 254 कल्पलताविवेक सहकार्यपरपर्यायमभेदोपचारेग प्रसिद्धकार्यानुमानस्थित्या वोत्प्रेक्षितं रत्यभिलाषापरपर्याय मदनस्थायिभावोत्प्रेक्षान्तरसम्भवात् सन्देहमागतम् / एवमुत्तरत्रैकत्र विरुतविषयमुत्प्रेक्षाद्वयमपरत्र वक्तृविषयमुत्प्रेक्षात्रयमिति / भिन्ना इति / निवृत्तत्वं निष्पन्नत्वं निष्पत्तिरिति यावत् / ततश्च भिन्नायां प्रवृत्तिलक्षणकार्यसिद्धौ कारणभेदादित्यर्थः / एकार्थ -इति / 5 एकस्मिन्नर्थे निष्पत्तेनिश्चितवृत्तेर्वा अभावात् / गुणानामिति चन्द्रशब्दस्येत्यर्थः / यथा इति / ह्लादकत्वादिगुणवृत्तित्वेन / गुणानिति चन्द्रशब्दमित्यर्थः / तथा इति गगनगतत्वादिवृत्तित्वेन / तदेतद् इति / तं ह्लादकत्वादिकमेतस्य चन्द्रस्य गुणं स्वीकर्तुम् / तथा त्वम् इति चन्द्रत्वम् / गुणवद् इति / प्रधानायत्तत्वात् / वाक्यार्थ- इति / मुखोपमिति सामर्थ्याक्षिप्तस्य चुम्बनाधारत्वादेः / पुष्पगतविशेषस्योपमेयायां साललतायामनुपयोगित्वेन 10 चुम्बनस्य चानानुकूल्येनासङ्गतेरित्यर्थः / शब्दालङ्कारोऽयमिति श्लिष्टे वाचके परम्परितं रूपकमित्येष उभयालङ्कारः / एकस्मिन् पदे परिवर्त्तिते हि नालङ्कार इति शब्दाश्रयोऽपरस्मिस्तु परिवर्तितेऽपि न स हीयत इत्यर्थनिष्ठश्च / उक्तम् इति / शब्दश्लेषे पुनरुक्तवदाभासे च शब्दार्थोभयगतत्वेनालङ्कारागां विभागकरगोपदर्शितयुक्त्युक्त्येत्यर्थः // ... वक्ष्यते इति सङ्करालङ्कारे / अत्र इति / अर्थालङ्कारेषु / एकदेश- इति / एक15 देशवृत्तिसंज्ञया हीदमन्येषामर्थालङ्कारेषु प्रसिद्धमित्यर्थः / इहभवान् इति पूज्यः। समस्त वस्तनि इति / समुच्चयेनास्यन्ते क्षिप्यन्ते इति समस्तानि च तानि वस्तूनि चेति / अर्थान्तरम् इति अर्जनादि / तद्रूपेण इति तदारोपेणेत्यर्थः / यद्रपणम् इति विशिखादिना / अन्यदा इति प्रकृतार्थप्रतीतिकालादन्यस्मिन् काले / एवं न्याय इति एवं प्रकार साधकं प्रमाणं रूपके इत्यर्थः / 20 ललना इति / ललना उपमानं सरोरुहिण्यश्चोपमेयं शरद्वर्णनं हि प्रस्तुतमभिसन्धाय श्लोकोऽयमुपर्रचितः सम्भाव्यते, उपमायां तथैव व्यक्तमुपनिबद्धत्वात् / यस्या बीजम् इति / यद्यत्रोपमेयगतमुभयावयवत्वं नास्ति तदेदमुदाहार्यम् / अलिभिः कुन्तलपाशैश्चक्रैश्च कुचैः सरोरुहैर्वदनैः / हंसैर्वासोभिरिमा विभान्ति वाप्यो विलासिन्यः // 25 अलिचक्रहंसानामाहार्यत्वात् सरोरुहाणां च सहजत्वाद् वापीषु इति / अनुप योगीति / अवयवत्वाभावात् / न हि प्रावृड् गगनस्यावयवः / जलदोपप्लवस्य इति / कालविशेषवाचिना प्रावृट्शब्देन लक्षितस्येत्यर्थः / तेन जलदोपप्लवो विपदिति रूपणमुप 1. -ति- ग. 2 // 2. शब्दार्थालङ्कारो- ग. 2. // 3. स न हीयत- क. ग. 2. // 4. ग. 2 पुस्तके च तानि इति पाठो नास्ति // 5. यद्रूपमिति ग. 2. // 6. - रि ग. 2. // 7. तस्या ग. 2. // 8. जलदस्येत्यर्थः ख. पुस्तके एव //