SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् तृतीये च पादे जलधरमालायां त्रुटत्यां षट्त्रिंशति षट्सु च द्विसप्ततिदिश च सम्भवन्ति / ते पूर्ववन्नेष्टाः / उज्वलायां चतुर्वपि पादेषु लवन्ताभ्यांद्वाभ्याम् / 558810 / 1010885 / वान्तेग्वक्र इति न्यायेन यो विकल्पः सम्भवति स पूर्ववदेव दूरापास्त इति समुत्पन्नेषु विकल्पेघूत्तरोत्तरमाहतेषु दशकोट्यस्तर्णकाः श्लोकाः समुत्पद्यन्ते / प्रस्तारादिपरिज्ञानार्थं च पूर्ववदेव विकल्पानधोधःक्रमेणाग्रतोऽग्रतश्च पङ्क्तिभिर्लिखित्वा / प्रथमपादविकल्पे प्रथमे एकं द्वितीये द्वावेवं शततमे शतं यावत्, द्वितीयपादविकल्पे प्रथमे शून्यं द्वितीये शतं तृतीये शतद्वयं चतुर्थे शतत्रयमेवं शततमे नवतिशतानि यावत्, तृतीयपादविकल्पे प्रथमे शून्यं द्वितीये दशसहस्राणि तृतीये विंशतिसहस्राणि चतुर्थे त्रिंशसहस्राण्येवं शततमे नवति सहस्राधिकानि नवलक्षाणि यावत्, चतुर्थपादविकल्पे प्रथमे शून्यं द्वितीये दशलक्षाणि तृतीये विंशतिलक्षाणि चतुर्थे त्रिंशल्लक्षाण्येवं शततमे नवतिलक्षाधिका 10 नवकोटीर्यावदान् विन्यस्येत् / ततश्च प्रस्तारो नष्टमुद्दिष्टं सङ्ख्या च पूर्ववदेव विनिर्देश्या // तथाहि इत्यादि / अत्र ह्यतिशक्कयाँ जातौ प्रथमप्रस्तारभेदे प्रतिपादं पञ्चदशभ्यः पदेभ्यः क्रमयोजनायां विधीयमानायां द्विकत्रिकादियोगविकल्पा ये जायन्ते ये चैककविकल्पास्तैरुत्तरोत्तरपादविकल्पेष्वाहन्यमानेषु प्रतिजातिसर्वजातिषु वा कियन्त एव तर्णकश्लोकाः समुत्पद्यन्ते / समग्रेऽपि श्लोके षष्टेः पदेभ्यः पदचतुष्कपदाष्टकादिक्रमयोगविकल्पैः प्रति- 15 कर्तुमुचितः / अत एव चाह-पदग्रहाद्यथाकामम् इति / तत्राप्यनुष्टुब्जाति यावत् प्रतिपादविकल्पा ये समुत्तिष्ठन्ते ते उत्तरोत्तरमाहन्यमानाः प्रतिजाति स्तोका एव समुत्पद्यन्ते / बृहतीजातेरारभ्य पुनर्जातौ जातौ प्रतिपादं विकल्पा ये समुद्भवन्ति ते उत्तरोत्तरमाहन्यमानाः परिगणनमनुगुणं साधयेयुः / तथाहि बृहतीजातौ नवानां पदानां क्रमेण व्युत्क्रमेण 20 च योजनायामङ्गीक्रियमाणायामब्जमेकमबुंदान्यष्टौ कोटिरेका प्रयुतानि षट् लक्षे द्वे अयुतमेकं सहस्राणि चत्वारि शतानां च चतुष्टयमिति विकल्पेषु / 1816214400 / प्रतिपादमुत्तिष्ठमानेषु प्रथमपादविकल्पैर्द्वितीयपादविकल्पेष्वाहतेषु परार्द्धानि द्वात्रिंशन्मध्यानि नवान्त्यान्यष्टौ सरित्पतयः षट् शङ्कवस्त्रयो महासरोजानि चत्वारि निखर्वाणि सप्त खर्वाणि चत्वार्यजानि षडर्बुदानि सप्त कोटयः षट् प्रयुतानि सप्त लक्षाणि त्रीण्ययुतानि षट् / 25 3298634746767360000 / एतैश्चाहतेषु तृतीयपादविकल्पेषु परार्द्धानां खर्वाणि पञ्चाब्जानि नवार्बुदानि नव कोटिरेका लक्षे द्वे अयुतानि सप्त सहस्राणि नव शते द्वे 1. नबनवति ग. // 2. एकं दशशतमस्मात् सहस्रमयुतं ततः परं लक्षम् / प्रयुतं कोटि मथार्बुदमब्जे खर्वं निखर्व च // तस्मान्महासरोज शकुं सरितां पति ततस्त्वन्त्यम् / मध्यं पराधमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy