________________ शब्दालङ्कारदर्शनम् 201 एकैकवृद्ध एकादौ गुणिते चोत्तरोत्तरे / पदद्वयमुखानां स्यात् प्रस्तारः सक्रमाक्रमः // पदद्वयेति पदद्वयप्रमुखानां पदद्वयत्रयचतुष्कपञ्चकषटकादीनामित्यर्थः / अथवोभयमुखे राशिद्वये परिस्थापितेऽधस्तनराशावादौ यः षट्कस्तेन हते पञ्चके त्रिंशत् त्रिंशता च हते चतुष्के विंशत्युत्तरं शतं एवं त्रिके षष्टयधिकं शतत्रयं द्विके एकके च विंशत्यधिकं 5 शतसप्तकं विंशत्यधिकं शतसप्तकमित्युपरितनराश्यङ्कसंयोगाः समुत्पद्यन्त इति पदषट्कयोगे विकल्पानां तावत्येव सङ्ख्या / राश्योरुभयमुखयोर्हतेऽधश्चोत्तरोत्तरे / एककद्विकादियोगा जायन्ते सक्रमाक्रमाः / / प्रस्तारश्चात्र विंशत्यधिकेषु सप्तसु शतेषु षड्भिः पदैविभक्तेषु लब्धे विंशत्युत्तरे शते 10 तावद्वारमेवाऽधोऽधःक्रमेण प्रथममेककास्ततो द्विका अनन्तरं त्रिकाः पश्चाच्चतुष्कास्तदनु पञ्चकाः पृष्ठतः षट्का इत्येका दीर्घा पङ्क्तिः प्रस्तार्यते / ततः पञ्चभिः शेषैः पदैविभक्ते विंशत्युत्तरे शते विंशत्युत्तरे शते लब्धायां चतुर्विशतौ तावद्वारमेव तथैव द्विकादय एककस्य एककत्रिकादयो द्विकस्य एककद्विकचतुष्कपञ्चकषटकास्त्रिकस्य / एककद्विकत्रिकपञ्चकषट्काश्चतुष्कस्य एककद्विकत्रिकचतुष्कषटकाः पञ्चकस्य एककद्विकत्रिकचतुष्कपञ्चकाः 15 षट्कस्य च दक्षिणत इति द्वितीया पक्तिः / अनन्तरं चतुर्भिः पदैविभक्तायां चतुर्विंशतौ लब्धेषु षट्सु तावद्वारमेव तथैव त्रिकादयो द्विकस्य द्विकचतुष्कपञ्चकषट्का स्त्रिकस्य द्विकत्रिकपञ्चकषट्काश्चतुष्कस्य द्विकत्रिकचतुष्कषटकाः पञ्चकस्य / द्विकत्रिकचतुष्कपञ्चकाः षट्कस्य त्रिकादय एककस्य एककचतुष्कपञ्चकषटकास्त्रिकस्य एककत्रिकपञ्चकषट्काश्चतुकस्य एककत्रिकचतुष्कषटकाः पञ्चकस्य एककत्रिकचतुष्कपञ्चकाः षट्कस्य द्विकचतुष्क- 20 पञ्चकषट्का एककस्य चेत्येवं स्थितस्थितानामङ्कानां क्रमेणैव विन्यासे तृतीया पङ्क्तिः। एवं च त्रिभिः पदैविभक्तेषु षट्सु लब्धे द्वये तावद्वारमेव चतुष्कपञ्चकषटकास्त्रिकस्य त्रिकपञ्चकषट्काश्चतुष्कस्य त्रिकचतुष्कषटकाः पञ्चकस्य त्रिकचतुष्कपञ्चकाः षट्कस्य चतुष्कादयो द्विकस्य चेत्येवं चतुर्थी पङ्क्तिः / पदद्वयेन विभक्ते द्रये लब्धे चैकके एकवारमेव पञ्चकषटको चतुष्कस्य चतुष्कषट्को पञ्चकस्य चतुष्कपञ्चकौ षट्कस्य पञ्चकषट्को त्रिकस्येवेत्येवं पञ्चमी 25 पङ्क्तिः / एकेन च पदेन विभक्ते एकके लब्धे चैकके एकवारमेव षट्कः पञ्चकस्य पञ्चकः षट्कस्य षट्कश्चतुष्कस्य चतुष्कः षट्कस्य पञ्चकश्चतुष्कस्य चतुष्कः पञ्चकस्य चेत्येवं षष्ठी पङ्क्तिः / यदि वा तिर्यक्पङ्क्त्या लिखिते राशौ षट्कस्याऽधस्तादधोऽधःक्रमेण विंशत्युत्तरशतमेव प्रथमं षट्कास्तदनु पञ्चकाः पश्चाच्चतुष्का अनन्तरं त्रिकास्ततो द्विकाः पृष्ठत एकका