SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 200 कल्पलताविवेके पञ्चत्रिंशत्के विभक्ते लब्धेन पादोननवकेन चतुष्के गुणिते चतुष्कसंयोगास्तावन्त एव / पञ्चकेन पञ्चत्रिंशत्के विभक्ते लब्धेन सप्तकेन त्रिके गुणिते पञ्चकसंयोगा एकविंशतिः। षटकेनैकविंशतिके विभक्ते लब्धेन साईत्रिकेण द्विके गुगिते षट्कसंयोगाः सप्त सप्तकेन सप्तके विभक्ते लब्धेनै ककेनैकके गुणिते सप्तकसंयोग एक एव / एककास्त्वधस्तनेनैककेनोपरितने सप्तके विभक्ते 5 सप्तैव लभ्यन्त इत्यन्त्यः सप्तकः स्थितक एवोपरितनराशौ ध्रियत इत्येककैः सप्तभिः सह सप्तविंशत्यधिकशतम् / यद्वा स्थितेनागन्तुकं हन्यादीप्सितेन विभाजयेदित्यादिना वक्ष्यमाणेन न्यायेन एककद्विकादिसंयोगान् निर्दिशेत् / तथैव ह्युभयमुखं राशिद्वयं स्थापयित्वाऽधस्तनराशौ प्रागन्यस्य स्थितस्याभावात् सप्तकस्याहतेरसम्भवः / एककाश्च जिज्ञासिता इतीप्सितेनोपरितनेनैककेन तस्मिन् विभक्ते तावन्त एव लभ्यन्ते / ततश्च स्थितेन सप्तकेन 10 सामान्यतो द्विकयोगसंख्यावाची अनन्तरो यः षट्कोऽत एव चाऽऽगन्तुकस्तस्मिन्नाहते ईप्सितेन च द्विकेन विभक्ते द्विकयोगा एकविंशतिर्भवन्ति / एवं चैकविंशत्याहते पञ्चके त्रिकेन च विभक्ते पञ्चत्रिंशत् / पञ्चत्रिंशता चाहते चतुष्के चतुष्केनैव च विभक्ते पञ्चत्रिंशदेव पञ्चत्रिंशता चाहते त्रिके पञ्चकेन च विभक्ते एकविंशतिः / एकविंशत्या चाहते द्विके षट्केन च विभक्ते सप्तसप्तकेन चाहते एकके सप्तकेन च विभक्त एक एवेति सप्त15 विंशत्यधिकं शतं सार्थकेष्वेकोत्तरशतसङ्ख्येषु तर्णकश्लोकेषु सदृशः प्रस्ताराः प्रतिष्ठायामेकः उष्णिह्येकः अनुष्टुभ्येको बहत्यां द्वौ पङ्क्तौ द्वौ तुष्टुभि द्वावतिजगत्यां द्वौ शक्काँ द्वावतिशक्कयों चत्वारोऽष्टौ त्रयोऽत्यष्टौ द्वौ धृतावेकः अतिधृतावेकः कृतौ त्रयः प्रकृतावेक आकृतौ त्रयोऽभिकृतावेकः शेषजातावेक इति त्रयस्त्रिंशत् शेषाश्च विसदृशः प्रस्तारा अष्टषष्टिरिति सदृशासदृशप्रस्तारास्वपि छन्दोजातिषु चतुर्विंशतौ यतिविच्छेदिनी ह्येषेत्यत्र 20 छन्दोभेदाद् इति यदुक्तं तद्वैसादृश्यबाहुल्याभिप्रायेणेति // पदान्यत्रेत्यादि / मनु विरतिर्न जौ भजगणत्रितयं भजला गुरुर्यदि सुधाकलशः / तत्र च षटस्वपि पदेषूपादीयमानेषु शतधेनुवत् क्रमेणैककद्विकादियोगैः श्लोकास्त्रिषष्टिरुत्पद्यन्ते न च तत्र प्रायशः क्रियाकारकयोगो न च तथाविधप्रस्तारभेदः सहस्रं च तर्णकश्लोकाः समुत्पाद्यास्ते च प्रस्तारान्यत्वेन परिकल्प्यमानाः प्रतिपादं विकल्पानुत्थाप्य 25 प्रथमपादविकल्पैरुत्तरोत्तरपादविकल्पेष्वाहतेषु यदि परं समुत्पद्यन्ते, तत्राऽपि षट्सु पदेषु क्रमव्युत्क्रमाभ्यां संयुज्यमानेषु प्रतिपादं विंशत्यधिकं शतसप्तकं सदृशासदृशप्रस्तारं विकल्पाः समुत्पद्यन्ते / तथा ार्बोर्ध्वक्रमेणैकादीनेकोत्तरया वृद्ध्या षड् यावद् विन्यस्योत्तरोत्तरे पूर्वपूर्वेण गुण्यमाने षट्सु गुणितेष्वेतावन्त एवोत्पद्यन्ते / 1. छन्दःप्रस्तारस्तस्य च बाहुल्यं विसदृशस्यात इदमुक्तम् /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy