SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 178 कल्पलताविवेके 'यद्वञ्चनाहितमतिः इति / अत्र त एव हि सर्व विदन्ति सुतरामिति ध्वन्यते / वाक्यपौनरुक्त्यमपि तथैव / यथा-पश्य-द्वीपादन्यस्मादपीति वचनानन्तरं, कः सन्देहो द्वीपादन्यस्मादपीत्यनेनेप्सितप्राप्तिरविप्नितैव ध्वन्यते / किं किं स्वस्था भवन्ति मयि जीवतीत्यनेनाऽऽमर्षातिशयः / सर्वक्षितिभृतां नाऽथ दृष्टा सर्वाङ्गसुन्दरीत्युन्मादाऽतिशयः / कालस्य यथा समविसमणिव्विसेसा समन्तओ मंदमंदसंचारा / ____ अइरा होहिंति पहा मणोरहाणं पि दुल्लंघा / / अत्र ह्यचिराद्भविष्यन्ति पन्थान इत्यत्र भविष्यन्तीत्यस्मिन् पदे प्रत्ययः कालविशेषाऽभिधायी रसपोषहेतुर्जायते / उत्प्रेक्ष्यमाणोऽपि हि वर्षासमयः कम्पकारी किमुत वर्तमान इति प्रकाशनात् / अयं हि गाथार्थः प्रवासविप्रलम्भशृङ्गारविभावतया विभाव्य10 मानो रसवान् / यथा चाऽत्र प्रत्ययांशो व्यञ्जकस्तथा क्वचित् प्रकृत्यंशोऽपि दृश्यते / यथा-तद्नेहं नतभित्तीति / अत्र दिवसैरित्येतस्मिन् पदे प्रकृत्यंशो द्योतकः / दिवसार्थो ह्यत्राऽयन्तासम्भाव्यमानतामस्यार्थस्य ध्वनति / सर्वनाम्नां चाऽत्र व्यञ्जकत्वमस्ति / अत एव च कविना क केत्यादिशब्दप्रयोगो न कृतः / तथा हि-तदिति पदं नतभित्तीत्येतत् प्रकृत्यं16 शसहायं समस्ताऽमङ्गलनिधानभूतां मूषिकाद्याकीर्णतां ध्वनति / तदिति हि केवलमुच्यमाने समुत्कर्षातिशयोऽपि सम्भाव्येत / न च नतभित्तिशब्देनाऽन्ये ते दौर्भाग्यायतनत्वसूचका विशेषा उक्ताः / एवं साधितुरित्यादावपि योज्यम् / एवंविधे च विषये स्मरणाकारद्योतकता तच्छब्दस्य, न तु यच्छब्दसम्बद्धतेत्युक्तं प्राक् / अत एवाऽत्र तदिदंशब्दादिना स्मृत्यनुभवयोरत्यन्तविरुद्धविषयतासूचनेन आश्चर्यविभावता योजिता / तदिदंशब्दाद्यभावे 20 तु सर्वमसङ्गतं स्यादिति तदिदमादेरेव प्राणत्वं योग्यम् / अनया दिशा व्यञ्जकविशेषा अन्येऽपि सहृदयैः समुत्प्रेक्षणीयाः / एतच्च सर्व पदवाक्यरचनाद्योतनोक्त्यैव गतार्थमपि वैचित्र्येण व्युत्पत्तये पुनरुक्तम् / ___एवं रसादीनां व्यञ्जकस्वरूपमभिधाय तेषामेव विरोधिरूपं लक्षयितुमुपक्रम्यते / - प्रबन्धे मुक्तके वाऽपि इति / विरोधिरससम्बन्धी इति / अकाण्ड एव इति / रसस्य 25 स्याद् इति / मुख्यो व्यापार-इति / नीरसस्तु इति। पूर्वे इति / वाल्मीकि-इति / विवक्षितः इति / प्रसिद्धेऽपि इति / रसान्तरसमावेशः इति / कार्यमेकम् इति / अविरोधी विरोधी वा इति / विरुद्धकाश्रयः इति / एकाश्रयत्वे इति / रसान्तरा 1. रामा रम्येव नान्तेऽस्मिन् मया विरहिता त्वया / ख. पुस्तके एव // 2. पुरुरवस उक्तिः / ख. पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy