SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 176 कल्पलताविवेके . तालैः सिञ्जदलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः // अत्र तालैरिति बहुवचनमनेकभङ्गिवैदग्ध्यं ध्वनद्विप्रलम्भोद्दीपकतामेति / तिङन्तस्य यथा अवयस रोत्तुंचिय णिम्मियाई मा फुससु मेह अच्छीई / दसणमेत्तुम्मइएहिं जेहिं हिययं तुह ण णायं / / अपकस रोदितुमेव निर्मिते मा पुंसयहते अक्षिणीमे / दर्शनमात्रोन्मत्ताभ्यां याभ्यां तव हृदयमेवंरूपं न ज्ञातम् // [ छाया] उन्मत्तो हि न किञ्चिजानातीति न कस्याऽप्यत्राऽपराधो दैवेनेत्थमेव निर्माणं कृत10 मिति / अपकस मा वृथा प्रयासं कार्षीः देवस्य विपरिवर्त्तयितुमशक्यत्वादिति तिङन्तो व्यञ्जकस्तदनुगृहीतानि तु पदान्तराण्यपीति भावः / यथा वा अम्हे अणिरिक्काओ सुण्णहरं रक्खियव्वं ण्णो // मा पन्थानं रुधः अपेहि बालक अप्रौढ अहो असि अहीकः / वयं परतन्त्राः, यतः शून्यगृहमस्माकं रक्षगीयं वर्त्तते / / [छाया] इत्यत्र अपेहीति तिङन्तं इदं ध्वनति / त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि, अस्ति तु सङ्केतस्थानं शून्यगृहं तत्रैवाऽऽगन्तव्यमिति / सम्बन्धस्य यथा अन्नत्थ वच्च वालय हायंति कीस में पुलोएसि / 20 एयं भो जायाभीरुयाणत्तहं चिय न होइ // अन्यत्र व्रज बालक अप्रौढबुद्धे, स्नान्तीं मां किं प्रकर्षेण लोकयसि / एतत् भोः इति सोल्लुण्ठनमाह्वानं जायाभीरुकाणां सम्बन्धि तटमेव न भवति // [छाया] ___ अत्र जायातो ये भीरवस्तेषामेतत् स्नानस्थानमिति दूरापेतः सम्बन्धः इत्यनेन ‘सम्बन्धेनैवेतिशयः प्रच्छन्नकामिन्याभिव्यक्तः / जायाभीरुकाणामित्यत्र तद्धितस्याऽपि 25 व्यञ्जकत्वम् / ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः। निपातानां यथा अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे / नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः / / 1. अपसर //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy