SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेक इत्यादयः पाश्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाऽभिप्राय मभिव्यजन्ति / सोऽभिव्यक्तः प्रकृतरसस्वरूपपर्यवसायी / यथा वा-कामदेवस्य मधुयौवनमलयानिलादिसहचरसमागमे विषमबाणलीलायां हुमि अवहत्थिअरेहो इत्यादयो यौवनोक्तयस्तत्तन्निजस्वभावव्यञ्जिकाः / स स्वभावः प्रकृत5 रेसपर्यवसायी / यथा च-गृध्रगोमायुसंवादादौ महाभारते / तथा हि श्मशानाऽवतीर्ण पुत्रदाहाथ भोगिनं विप्रलब्धुं गृध्रो दिवा शावशरीरभक्षणार्थी शीघ्रमेवाऽपसरत यूयमित्याह / अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले / कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे / न चेह जीवितः कश्चित् कालधर्ममुपागतः / प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी // इत्याद्यनेकमवोचत् / जम्बुकस्तु निशोदयावधिममी तिष्ठन्तु, ततोऽहं गृध्रादपहृत्य भक्षयिष्यामीत्यभिप्रायेणावोचत् / आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् / बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन // इमं कनकवर्णाभं बालमप्राप्तयौवनम् / गृध्रवाक्यात् कथं बालात्यक्ष्यध्वं पितृपिण्डदम् // इत्यादि / स चाऽभिप्रायोऽभिव्यक्तः शान्तरस एव परिनिष्ठां प्राप्तः / / एवमलक्ष्यक्रमव्यङ्ग्यस्य रसादिध्वनेर्यद्यपि वर्णेभ्यः प्रभृति प्रबन्धपर्यन्तं व्यञ्जकवर्गे निरूपिते न निरूपणीयान्तरमवशिष्यते, तथापि कविसहृदयानां शिक्षां दातुं पुनरपि 20 सूक्ष्मदृशाऽन्वयव्यतिरेकावाश्रित्य व्यञ्जकवर्गमाह / सुप्तिब्व चनसम्बन्धैस्तथा कारकशक्तिभिः / कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित् // चकारान्निपातोपसर्गकालादिभिरित्यर्थः / यथा न्यक्कारो ह्ययमेवेति / अत्र हि श्लोके भूयसा सर्वेषाममीषां स्फुटमेव व्यञ्जकत्वं दृश्यते / तथा हि-मम अरयः इति / 25 शत्रुशत्रुमद्भावो ममाऽनुचित इति सम्बन्धानौचित्यं क्रोधविभावं व्यनक्ति अरयः इति बहुवचनम् / तपो विद्यते यस्येति पौरुषकथाहीनत्वं तद्धितेन मत्वर्थीयेनाऽभिव्यक्तम् / तत्रापि 1. वीर // 2. शृगाल //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy