________________ शब्दालङ्कारदर्शनम् - 174 अथवा पद्यवद्गद्यबन्धेऽपि रसबन्धोक्तमौचित्यं सर्वत्र संश्रिता रचना भाति / तत्तु विषयापेक्षं किञ्चिद्विशेषवद्भवति / न तु सर्वाकारम् / तथा हि गद्यबन्धेऽप्यतिदीर्घसमासा रचना न विप्रलम्भशृङ्गारकरुणयोराख्यायिकायामपि शोभते / नाटकादाप्यसमावं न च वोररौद्रादिवर्णने / विषयापेक्षं त्वौचित्यं प्रमाणतोऽपकृष्यते / प्रकृष्यते च तथा ह्याख्यायिकीयां नात्यन्तमसमासा, स्वविषयेऽपि नाटकादौ नाऽतिदीर्घसमासा चेति सङ्घटनाया 5 दिगनुसतव्या / इति काव्यार्थविवेको योऽयं चेतश्चमत्कृतिविधायी / सूरिभिरनुसृतसारैरस्मदुपज्ञो न विस्मार्यः / / इति / एवं सङ्घटनायां च अलक्ष्यक्रमो दीप्यत इति निर्णीतम् / प्रबन्धे दीप्यत इति तु निर्विवादसिद्धोऽयमर्थः रामायणमहाभारतादौ प्रकाशमानस्याऽस्य प्रसिद्धत्वादिति नाऽत्र 10 वक्तव्यं किञ्चिदस्ति / केवलं कविसहृदयान् व्युत्पादयितुं रसव्यञ्जने येतिकर्तव्यता प्रबन्धस्य सा निरूप्येत्याह-विभावभावानुभावेति / इतिवृत्तेति। सन्धिसन्ध्यङ्गेति / उद्दीपनेति। अलङ्कृतीनाम् इति / अनौचित्याद् इति / कथाशरीरमिति / सन्ति सिद्धेति / एतद्धि सर्वमेव व्याख्यातचरं तत्र तत्रेति / अनुस्वानोपमात्माऽपि प्रभेदो य उदाहृतः / ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित् // विवक्षितान्यपरवाच्यस्य ध्वनेरनुरणनरूपव्यङ्ग्यो यः प्रभेद उदाहृतोऽर्थादर्थशक्तयुद्भवो द्वादशप्रकारः सोऽपि केषुचित् प्रबन्धेषु निमित्तभूतेषु व्यञ्जकेषु सत्सु व्यङग्यतया स्थितः सन् अस्य अलक्ष्यक्रमस्य प्रकृतस्य व्यञ्जकतया भासते तत्पर्यवसायी भवतीत्यर्थः / तत्र दिङ्मात्रं यथा - मधुमथनविजये लीलादाढग्गुब्बूढसयलमहिमंडलस्स चिअ अज्ज / कीस मुणालाहरणं पि तुज्झ गरुआइ अंगम्मि / / 1. स्थितपक्षपक्षस्य द्योतकः / स्थितपक्षस्य द्योतकोऽयं शब्दः ग / यथा स्त्रियो नरपतिवह्निविषं युक्त्या निषेवितम् / स्वार्थाय यदि वा दुःखसम्भारायेव केवलम् // 2. वक्तवाच्यगतौचित्यापरपर्यायम् // 3. तर्हि विषयौचित्यं सर्वथैव त्यक्तं नेत्याह तत्त्विति // 4. अवान्तरवैचित्र्यवत् // 5. अपि तु मध्यमसमासा // 6. गद्ये // 7. न तु मध्यमसमासा // 8. किन्तु मध्यमसमासा // 9 रसौचित्या व्यतिरेकः // 10. युक्त्या / / अनन्तरं दर्शितयोः // 11. दर्शयिष्यमाणयोः // 12. किं च अनु-ग. // ___15 20