________________ शब्दालकारदर्शनम् पदानां स्मारकत्वेऽपि पदमात्रावभासिनः / तेन ध्वनेः प्रभेदेषु सर्वेष्वेवास्ति रम्यता / / पदमात्रेति / पदप्रकाशस्याऽपीत्यर्थः / अपिशब्दो ह्यत्र सम्बध्यते / विच्छित्तिशोभितकेन भूषणेनेव कामिनी / पदद्योत्येन सुकवेर्ध्वनिना भाति भारती // यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिवर्णपदादिषु / वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते // आदिशब्देन पदैकदेशपदद्वितयादीनां ग्रहणम् / सप्तम्या निमित्तत्वमुक्तम् / तत्र वर्णानामनर्थकत्वाद् द्योतकत्वमसम्भवीत्याशङ्क्येदमुच्यते शषौ सरेफसंयोगौ ट(ढ)कारश्चाऽपि भूयसा / विरोधिनः स्युः शृङ्गारे तेन वर्णा रसश्च्युतः / / त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा / तदा तं दीपयन्त्येव तेन वर्णा रसश्च्युतः / श्लोकद्वयेन व्यतिरेकोन्वयाभ्यां वर्णानां द्योतकत्वमादर्शितं भवति / पदे च द्योतनं यथा-उत्कम्पिनी भयेति / अत्र हि ते इत्येतत् पदं रसमयत्वेन स्फुटमेवाऽवभासते सहृद- 15 यानाम् / तथाहि-वासवदत्तादाहाकर्णनप्रबुद्धशोकनिर्भरस्येदं वत्सराजस्य परिदेवितवचनम् / तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रक्षेपकटाक्षप्रभृतयः पूर्व रतिविभावतामवलम्बन्ते स्म, त एवाऽत्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षभावत्वप्राणं करुणमुद्दीपयन्तीति स्थिते, ते लोचने इति तच्छब्दस्तल्लोचनगतस्वसंवेद्याऽव्यपदेश्याऽनन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तस्तेन यत् 20 किञ्चिच्चोदितं परिहृतं च तन्मिध्यैव / तथा हि- चोद्यं प्रक्रान्तपरामर्शकस्य तच्छब्दस्य कथमियति सामर्थ्यमिति / उत्तरं च-रसाविष्टोऽत्र पराम्रष्टेति / तदुभयमनुत्थानोपहतम् / यत्र ह्यनुदेक्ष्यमाणधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाऽभिधाय तह बुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाह्यते / यत्रोच्यते यत्तदोर्नित्याऽभिसम्बन्धादिति, तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छब्दस्य / यत्र पुनर्निमित्तोपनतस्मरणविशेषाकारसूचकत्वं तच्छब्दस्य 25 1. शृङ्गारविषये शषादिप्रयोगः सुकवित्वमभिवाञ्छता न कर्त्तव्य इत्येवंफलत्वादुपदेशस्य पूर्व व्यतिरेक उक्तः / उक्तोऽन्यत्र हि अन्वयव्यतिरेकेति ग. // 2. केनचित् ख. ग // 3. वत्सराजः ख. // 4. यः पुमानुत्तमप्रकृतिः सोऽवश्य जितेन्द्रियस्वादिगुणगणवान् भवति / अत्र हि पश्चानिर्देक्ष्यमाणबुद्धिस्थजितेन्द्रियत्वादिधर्मान्तरसम्बन्धाहमुत्तमप्रकृतित्वं धर्मः ख. // 5. कुत इहोभयप्रयोग इत्याशङ्कायां यत्र समाधीयते ख. // 6. इष्टविनाशप्रभवशोकादि ख. //