________________ तापी नेयं नियतमथवा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि / अन्यो वाऽहं किमथ न हि तद्वारिवेल्लबलाकं यत्तत् पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् // 5. अत्र वाक्यार्थेन वस्तुमात्ररूपेण अभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते / धन्याऽसि या कथयसि प्रियसङ्गमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु / नीवी प्रति प्रणिहितश्च करः प्रियेण अत्र त्वमधन्याऽहं तु धन्येति व्यतिरेकालङ्कारः / हुमि अवहत्थियरे होइति / अत्र सकलवाक्यवाच्यो विभावनाऽलङ्कारः / तथा हि- मर्यादायोगः शास्त्रावायत्तता सविवेकत्वमिति तावत् प्रभुभक्तौ कारणानि / तदभावेऽपि प्रभुभक्तिर्मम स्वाभाविकीति सोऽर्थः स्वशक्तिवशात्विलङ्कारं व्यनक्ति / यत एव हि मर्यादाशास्त्राङ्कशयोगो विवेकश्चेति यौवनेन 15 सर्व निमज्यते / तत एव मदनचरितोदीपनतात्पर्य यौवनस्येति / चंदमऊहेहीति / अत्र वाक्ये यो दीपकालङ्कारो वाच्यस्तेन स्वशक्तिबलादिदं वस्तु ध्वन्यते / सज्जनैर्विना काव्यमन्धतमसं पङ्कप्रायं नीरसकाष्ठतुल्यं सन्तापकारि / परं सज्जनैस्तु काव्यकथामात्रमपि तथा क्रियते येन तदेव सम्भोगस्थानं सर्वलक्ष्म्यास्पदं सर्वजनहृद्यं श्रोत्रमधुरं चेति / एवं चतुर्विंशतिरर्थशक्त्युद्भवप्रभेदाः / उभयशक्तिमूलस्तु वाक्यप्रकाश 20 एवैकः / स च प्रागुदाहृत एव / एवं लक्ष्यक्रमव्यङ्ग्यस्य विवक्षितान्यपरवाच्यप्रभेदस्य ध्वनेरेकोनत्रिंशत् प्रकारा इति / अनिष्टस्य श्रुतिर्यद्वदापादयति दुष्टताम् / श्रुतिदुष्टादिषु व्यक्तं तद्वदिष्टस्मृतिर्गुणम् // 25 अनिष्टस्येति अनिष्टार्थस्मारकस्य, दुष्टतामिति अचारुत्वम् / गुणमिति चारुत्वम् / यथा श्रुतिदुष्टानां पेलवादिपदानामसभ्यपेलाद्यर्थं प्रति स्मारकत्वं तद्वशाच्चाचारुरूपं काव्यम, तच श्रुतिदुष्टत्वमन्वयव्यतिरेकाभ्यां भागे व्यवस्थाप्यते तथा प्रकृतेऽपीत्यर्थः / अधुनोपसंहरति 1. नदी // 2. सम्बोधनम् // 3. काव्यं श्रुतिदुष्टं ग. //