________________ 140 कल्पलताविवेक वाच्यो विरोध इति तच्छायानुग्राही श्लेषोऽयमिति न शक्यं वक्तुम् / साक्षाच्छब्देन विरोधालङ्कारस्याऽप्रकाशितत्वात् / यदि चात्र धर्मद्वये यश्चकारः स विरोधद्योतक एव अन्यथा प्रतिधर्म सर्वधर्मान्ते वा न कचिद्वा चकारः स्याद् / यदि समुच्चयार्थः स्यादित्युच्यते तदेवमुदाहरणम्-- सवैकशरणमिति / अत्र हि शब्दशक्तिमूलानुस्वानरूपो विरोधः स्फुटमेव 5 प्रतीयते / एवंविधो व्यतिरेकोऽपि दृश्यते / यथा खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये / ये मूर्द्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रियै सन्तु वः / / 10 नखैरुद्भासन्तेऽवश्य, खे च गगने न उद्भासन्ते / क्षितिभृतां राज्ञामपि / उभये इति रश्म्यात्मानोऽङ्गुलीपााद्यवयविरूपाश्चेत्यर्थः / एवंविधाऽप्रस्तुतप्रशंसाऽपि दृश्यते / यथा सरसं मउयसहावं विमलगुणं मित्तसंगमोल्लसियं / कमलं णगुच्छायं कुणन्त दोसायर णमो ए / 15 एतत् केनचिच्चन्द्रमेवोद्दिश्योच्यते / कमलप्रख्यस्य महापुरुषस्य श्रियं नाशितवन्तं कञ्चन श्रीजुषं प्रति त्वप्रस्तुतप्रशंसा व्यंग्येति / .. . अर्थान्तरन्यासोऽपि / यथा देव्वाअत्तम्मि फले किं कीरउ इत्तियं पुण भणामि / कंकेल्लिपल्लवा पल्लवाण अण्णाण ण सरिच्छा // . 20 अशोकस्य फलमाम्रादिवन्नास्ति किं क्रियतां, पल्लवास्त्वतीव हृद्या इतीयताभिधा समाप्तैव / फलशब्दस्य शक्तिबलात् समर्थकमस्य वस्तुनः पूर्वमेव प्रतीयते / लोकोत्तरजिगीषातदुपायप्रवृत्तस्याऽपि फलं सम्पल्लक्षणं देवायत्तं कदाचिन्न भवेदपीत्येवंरूपं सामान्यात्मकम् / नन्वत्र सकलवाक्यस्याप्रस्तुतप्रशंसा प्राधान्येन व्यङ्ग्या / तत्कथमर्थान्तर.न्यासस्य व्यङ्ग्यता / द्वयोर्युगपदेकत्र प्राधान्यायोगात् / मैवम् / सर्वो हि ध्वनिप्रपञ्चः 1. सर्वकशरणमक्षयमधीशमीशं धियां हरि कृष्णम् / .. चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् // ख. // 2. सादृश्यादेव विवक्षितं श्रीजुषं कञ्चिदाक्षिपतश्चन्द्रमसोऽप्रस्तुतत्वेन प्रशंसनं व्यायमित्यर्थः। ख. // 3. फल /