________________ शदालङ्कारदर्शनम् सर्वेषामसमर्थानां त्वमेको गतिरित्येवंविधेऽर्थे यद्यप्येते प्रकरणेन नियन्त्रिताऽभिधाशक्तयः शब्दास्तथाऽपि सा सर्वासां नारीणां त्वमेव गतिरिति द्वितीयेऽर्थेऽभिधाशक्तिनिरुद्धाऽपि सती सलेशमित्यनेन शब्देन प्रत्युज्जीविता / ऐवंजातीयकः सर्व एव भवतु कामं वाच्यश्लेषविषयः / यत्र तु सामर्थ्याक्षिप्त सदलङ्कारान्तरं शब्दशक्त्या प्रकाशते स सर्व एव ध्वनेविषयः / यथा-अत्रान्तरे कुसुम- 5 समययुगमुपसंहरन्नजृम्भत ग्रीष्माऽभिधानः फुल्लमल्लिकाधवलाट्टहासो महाकालः / कुसुम. समयात्मकं यद् युगं मासद्वयं तदुपसंहरन् / धवलानि हृद्यानि अट्टानि आपणा येन तादृक् / फुल्लमल्लिकानां हासो विकासेन सितिमा यत्र / फुल्लमल्लिका एव धवलोऽहासोऽस्येति तु व्याख्याने जलदभुजगजमित्येतत्तुल्यमेतत् स्यात् / महांश्चासौ दिनदैर्घ्यदुरतिवाहतायोगात् कॉल: समयः / अत्र ऋतुवर्णनप्रस्तावनियन्त्रिताऽभिधानशक्तयोऽत एवाऽवयवप्रसिद्धेः 10 समुदायप्रसिद्धिर्बलीयसीति न्यायमपाकुर्वन्तो महाकालप्रभृतयः शब्दा एकमेवाऽर्थमभिधाय कृतकृत्या एव / तदनन्तरं त्वर्थान्तरावगति ननव्यापारादेव शब्दशक्तिमूलात् / यथा चउन्नतः प्रोल्लसद्धार इति / यथा वा दत्तानन्दाः प्रजानां समुचितसमयाक्लिष्टसृष्टैः पयोभिः पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः / दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु // पयोभिः पानीयैः क्षीरेश्च, संहारो ध्वंसः एकत्र ढौकनमपरत्र, गावो रश्मयः सुरभय इव / एतेषूदाहरणेषु शब्दशक्त्या प्रकाशमाने सत्यप्राकरणिकेऽर्थान्तरे वाक्यस्याऽसम्बद्धाऽभिधायित्वं मा प्रसाङ्गीदित्यप्राकरणिकप्राकरणिकयोरर्थयोरुपमानोपमेयभावः कल्प- 20 यितव्यः सामर्थ्यादित्यत्रार्थाक्षिप्तोऽयं श्लेषो न शब्दोपारूढ इति विभिन्न एव श्लेषादनुस्वानोपमव्यङ्ग्यस्य ध्वनेविषयः / __ अन्येऽपि चाऽलङ्काराः शब्दशक्तिमूलानुस्वानरूपव्यङ्ग्ये ध्वनौ सम्भवन्त्येव / तथा हि-विरोधोऽपि शब्दशक्तिमूलानुस्वानरूपो दृश्यत एव। यथा-मातङ्गगामिन्य इति / अत्र हि 1 एकत्रानियमिताऽभिधार्थद्वयप्रत्युतप्रमाणोल्लिखितद्वितीयार्थताहक्शब्दप्रतिप्रसूताभिधापरार्थकाव्यलक्षणः / / 2. कुसुमवत् कालरूपं कृतयुगादि च ख. // 3. फुल्लमल्लिकानां धवलोऽट्टहासो यस्य च / ख. // 4. फुल्लमल्लिकावत् धवलोऽहासो यस्य च / ख. // 5. भैरवश्च / 6. अत्र प्राट् प्रकृता // 7. पराभिप्रायेण // उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः / पयोधरभरस्तस्याः कं न चकेऽभिलाषिणम् // ख. // 8. [ टिप्पणी नोपलब्धा ] // 15