________________ शब्दालङ्कारदर्शनम् 131 तस्माद्यत्र रसादयो वाक्यार्थीभूताः स सर्वो ध्वनेः प्रभेदः। तस्य च प्रधानस्यात्मभूतस्योपमादयोऽलङ्काराः / एतदुक्तं भवति-उपमया यद्यपि वाच्योऽर्थोऽलक्रियते तथाऽपि तस्य तदेवाऽलङ्करणं यद् व्यङ्ग्यार्थाभिव्यञ्जनसामर्थ्याधानम् , इति वस्तुतो ध्वन्यात्मैवालङ्कार्यः। कटककेयूरादिभिरपि हि शरीरसमैवायिभिश्चेतन आत्मैव तत्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मतयाऽलङ्क्रियते / तथा ह्यचेतनं शवशरीरं कुण्डलाद्यपेतमपि न भाति, अलङ्कार्य-5 स्याऽभावात् / यतिशरीरं च कटकादियुक्तं हास्यावहं भाति, अलङ्कार्यस्यानौचित्यात् / न च देहस्य किञ्चिदनौचित्यमिति वस्तुत आत्मैवालङ्कार्यः, अहमलंकृत इत्यभिमानात् / यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिष्पत्तिः क्रियते स रसौदेरलङ्कारतायाँ विषयः / एवं ध्वनेरुपमादीनां रसवदाधलङ्कारस्य च विभक्तविषयता भवति / यदि तु चेतनानां वाक्यार्थीभावो रसाधलङ्कारस्य विषय इत्युच्यते, तदुपमादीनां प्रविरल- 10 विषयता निर्विषयतैवाऽभिहिता स्यात् / यस्मादचेतनवस्तुवृत्तान्ते वाक्यार्थीभूते पुनश्चतनवस्तुवृत्तान्तयोजनया यथा कथञ्चिद् भवितव्यम् / / अथ सत्यामपि तस्यां यत्राचेतनानां वाक्यार्थीभावो नाऽसौ रसवदलङ्कारस्य विषय इत्युच्यते / तन्महतः काव्यप्रबन्धस्य रसनिधानभूतस्य नीरसत्वमभिहितं स्यात् / यथा तरङ्गभ्रूभङ्गा इति / तरङ्गा एव भ्रूभङ्गा यस्याः / विकर्षन्ती इति विलम्बमानं बला- 15 दाक्षिपन्ती वसनमंशुकं प्रियतमावलम्बननिषेधायेति भावः / बहुशो यत् स्खलितं बहवो येऽपराधास्तदभिसन्धाय हृदयेनैकीकृत्य / असहना मानिनीत्यर्थः / अथ च मद्वियोगपश्चात्तापासहिष्णुस्तापशान्तये भी सम्पन्नेति / यद्यपि सा नदी सम्पन्नेत्युत्पत्तिक्रमस्तथाऽपि जदीदर्शने तत्परिणामनिश्चय इति ज्ञप्तिक्रमस्तेन भ्रूभङ्गतरङ्गेत्यादिनोक्तम् / संरम्भशिथिलमिवेति भिन्नक्रमः इवशब्दः उत्प्रेक्षाद्योतकस्ततस्तत्वापत्तिरूपे परिणामे कथमुपमेति न चोद्यम् / 20 मेरूरुकेसरमुदारदिगन्तपत्र मामूललम्बिचलशेषशरीरनालम् / येनोद्धृतं कुवलयं ललता सलीलम् उत्तंसनार्थमिव पातु स वो वराहः // इत्यादौ यथाशब्दस्योभयार्थाऽभिधानसामर्थे कुवलयकुवलयमित्यादि न क्रियते, 25 1. संयोगमात्र // 2,3. व्यधिकरणे षष्ठयौ एते ग. // तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरसना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् / यथाऽऽविद्धं याति स्खलितमभिसन्धाय बहुशो। नदीभावेनेयं ध्रुवमसहना सा परिणता // ख. //