________________ 10 120 कल्पलताविवेक मा मां हासिषुरिति व्यङ्गयमस्फुटम् / अप्रधानं व्यङ्गयं व्यङ्गयस्य यत्रेत्यादिना कथितम् / समासोक्त्यादय इत्युपलक्षणं गुणीभूतव्यङ्गयस्य / वाणीरकुडङ्गोड्डीणेत्यादौ हि गुणीभूतव्यङ्गयत्वं वक्ष्यति / न च तत्र समासोक्त्यादयः / सन्दिग्धप्राधान्य द्वयोरपि प्राधान्यं च यत्र वा तस्येत्यादिनाऽभिहितम् / तस्येति तस्यैवेत्यर्थः / आयं यथा महिलासहस्सभरिए तुह हियए सुहय सा अमायंती / अणुदिणु अणन्नयम्मा अंगं तणुयंमि तणुएइ // अत्राऽन्यासक्तस्याऽपि तवैवाविरतं ध्यानपरा, तनूभावप्रकर्षारोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वा दौर्जन्यं साऽनुनीयतामिति व्यङ्ग्यम् / . द्वयोरपि प्राधान्यं यथा पङ्क्तौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताऽप्यथवा त्रपेरन् / सन्तोऽप्यसन्त इति चेत् प्रतिभान्ति भानो र्भासावृते नभसि शीतमयूखमुख्याः / अत्र प्राकरणिकाऽप्राकरणिकयोः समं प्राधान्यम् / 15 तत्परौ इति / यत्र तस्यैव प्राधान्यं तदनेन प्रकाश्यते / सङ्करोज्झित इति / ___ अनेन वक्ष्यमाणं सङ्केतकालमनसमित्यादि निराक्रियते / अत्र हि व्यङ्ग्यस्यैव प्रदोषसमय लक्षणस्य प्राधान्येऽपि कविना पुनराद्यपादत्रयोक्त्या वाच्यभाव आपादितः / तस्मान्न ध्वनेरन्यत्रान्तर्भावः / तदेवं धनेरभाववादिनस्तावत् प्रत्युक्ताः / / अस्ति ध्वनिः / स चाऽविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः 20 सामान्येन / तत्राद्यस्योदाहरणम् सुवर्णपुष्पों पृथिवीं चिन्वन्ति पुरुषास्त्रयः / शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् / / सुवर्ण न तु ताम्रादि, पुष्पाणि प्रतिदिनं ग्राह्याणि, * न तु दीनारादिवत् सकृद् ग्राह्याणि, पृथिवीं न तु नगरादिमात्रम् , चिन्वन्ति उच्चिन्वन्ति, प्रत्यहं गृहीतसारां कुर्वते 25 पुरुषाः इति / अन्ये त्वकार्यकराः / त्रयः इति न तु चत्वारः / एवं शूरः पराक्रमेण 1. अत्र किं व्यङ्गय प्रधानं किं वाच्यमिति सन्देहः // 2 व्यङ्गयस्य वाच्यत्वेन सङ्कीर्णता / / 3 युग // 4. अभाववादे निराकृते युक्तं भेदकथनम् / उदाहरणपृष्ठे च भाक्तवादः सुशङ्कः सुपरिहरश्चेति विप्रतिपत्तिनिराकृतिमप्ययुक्तमेव भेदकथनम् // 5. सुवर्णपुण्यां ख. //