SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ कल्पलताधिवेके / न हि पूर्वपक्षात् प्रभृति इति / अत एव च पूर्वत्र लक्षणाश्रयणेन सिद्धान्तितम् / इह तु मुख्यार्थाश्रयणेनेत्यर्थः / आक्षेपस्य इति / न ह्योजः-प्रसाद्रयोः क्रमः कश्चिदस्ति, येनारोहावरोहयोस्तद्रूपतया पूर्वपक्षोऽवतरेदित्यर्थः / तत्र हि इति / आरोहावरोहयोरन्यो न्यस्य पर्याये विवक्षिते यदाऽवरोहस्य पर्यायस्तदौजोरहितस्य प्रसादस्य प्रतीतो गुगः 5 संप्लवादित्युक्तेन न्यायेन संप्लवाभावादोषरूपतैव भवेत् / क्रमेणावरोहणे तु शनैः शनै रेवौजसः परिहारप्रतीतेः शनैः शनै रेव च प्रसादस्वीकरणसंप्रत्ययात्संप्लवसिद्धेने यथोक्तदोषावकाश इति / परिकीर्तितः इति / परिकीत्तौ परिकीर्तित इति सप्तम्यर्थे तसिः / गतितुल्यम् इति / आक्रमणेन यद्गमनं तत्तुल्यमित्यर्थः / ततो यद्यपि इति / ततो रेफादनन्तरं नशब्देऽवरोहणं सम्पन्नमप्यसम्पन्नकल्पमिति 10 सम्बन्धः / दन्त्यतया हि नकारस्यावरोहगं सम्पन्नमपि संयोगपरत्वादिना आरोहण स्फुटीकरणेनाऽसम्पन्नप्रायं सञ्जातमित्यर्थः / प्रतीच्छत्याशोकीम् इति / अत्र प्रतीच्छत्यवतरत्यनुवदतीति चेतनक्रियाधर्मागामचेतनेषु अवरादिषूपचारेगाऽध्यारोपणं समाधिः / किशलयपरावृत्तिम् इति परावृत्तकिशलयरूपतामित्यर्थः / विपर्ययस्तु इति / जरठत्वं पारुष्यं कष्टत्वमिति यावत् / ननु गुणविपर्ययात्मानो दोषा इत्यत एव सामर्थ्यात् कष्टत्व15 दोषावगमः सिद्धः, किं दोषदर्शन विकरणे तदुक्त्येति / सत्यमेतत् / किन्तु सौकर्याय तत्प्रपञ्च इति / एवमन्यत्रापि सामर्थ्यावगम्यनिर्दिष्टेऽयमेव परिहारो वाच्यः / निदानम् इति / तस्मिन् दृष्टे तस्याः कारणद्वयं कार्यद्वयं च युगपन्मनसि वर्तत इत्यर्थः / कारणस्य हि शीघ्रकारितां प्रतिपादयितुं कार्यस्य कारणकाल एवोत्पादः प्रदर्शितः / सर्वकोमले इति / हेलालोलादावल्पप्राणाक्षरे / कृच्छ्रोद्यमपि इति अति20 निष्ठुराक्षरमपीत्यर्थः / यद्वक्तव्यम् इति / कथं च पारुष्यं परिज्ञाय परिहियते कथं च सौकुमार्यमाद्रियत इति / समाधिलक्षणः इति / स्वभावप्रतिभादर्शनेत्यादिना उपनागरिकोचिता इत्यन्तेन / केवलमारोहावरोहक्रममित्यादेः स्थाने सौकुमार्यमित्यादि पठनीयम् / वर्द्धमानाक्षरपदत्वम् इत्यादि। उपलक्षगपरत्वेनैकस्य वर्णस्यानेकवर्णव्याप्तिः सन्धानसाजात्यसावादि च लभ्यते / स्पष्टमुदाहरणं तु इति / पादानां लीलायमानत्वेनेत्यर्थः / पश्चाक्षरम् इति। विनिविष्टैरित्यत्र विसर्गस्थानीयेन रेफेण सहेत्यर्थः / तलशय्येव इति / पृष्ठशय्येव समाऽविषमाऽविचित्रवेत्यर्थः / असाधुरनुमानेन इति। असाधुशब्दानां वाचकत्वं न साक्षादपि त्वेकदेशसारूप्यात् , साधुशब्दानुमितिव्यवधानेनेत्यर्थः / अनेयत्वम् इति / नेयोऽध्याहारादि कष्टकल्पनानिर्बाह्योऽर्थो यत्र न भवति तदिति / इह तु इति / तेन लोके यद्यपि मधुर30 मिदं काव्यमिति प्रसिद्धं तथाऽपि काव्यलक्षणे कान्तिरेवेयं प्रतीता / मा जीवतः इति /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy