________________ गुणविवेचनम् मुपपादितं तन्न युक्तम् / मध्यमबन्धत्वं हि वैषम्यमेव / तर्हि दोषोऽयमस्तु, नैवमित्याह / इत्यनालोच्य इति / इतिशब्देन प्राक्तनः प्रबन्धः प्रत्यवमृश्यते / स एव चानेकरूपतया विषमबन्धः / तद्गतं वैषम्यमवीर्य इत्यर्थः / ततश्च वैदर्भापेक्षया मार्गद्वयं, गौडापेक्षया तु तृतीयो मार्ग इति तात्पर्यम् / यत्र सा-इति / अतिशयिता ह्यर्था अन्यथानुपपद्यमानाः प्रतियोगिनमपेक्षन्त 5 इत्यत्र तदपेक्षायां सातिशयस्यासमासस्य सातिशय एव समासोऽतिनिम्नस्याऽत्युन्नत इव देशः प्रतियोगी भवितुमर्हति / स चार्थादी? न मध्यमः / तेन दीर्घसमाससद्भावेऽतिशयवान् समासो यः स यत्र न भवति तत्र दीर्घसमोसमध्यमसमासयोर्मध्यमसमासाऽत्यन्तासमासयोश्चोपनिबन्धे समता / दीर्घसमासात्यन्तासमासयोस्तु विषमतेत्यर्थः / क्रमः इति / परिहाररूपसमाधिसहचरत्वात् क्रमः समाधिः / अस्मिन् व्याख्याने 10 आरोहस्याऽवरोहस्य वा शनैः शनैरनुरूपदीप्तिरूपः क्रमो नाश्रितः। आरोहावरोहयोर्द्वयोः पर्यायरूपक्रमशब्दार्थपरिग्रहात् / द्वितीयस्मिन् पक्षे आरोहस्यैव शनैः शनैरुद्दीप्ततारूपो यः क्रमस्तद्वदवरोहस्य स क्रमशब्दार्थः परिगृहीतः / अत एव वक्ष्यति-आरोहस्य च क्रमोऽवरोहस्य च क्रम इति / न पुनरारोहावरोहयोः क्रम इति / आरोहस्य च क्रम इति / अयमपि च क्रमः - पूर्वपूर्वरूपत्यागेनोत्तरोत्तररूपसंश्रयणात्मकत्वाद्भवत्येव परिहारसहचर 15 इति समाधिशब्दाभिधेयतां नातिपतति / तार-कारी इति तारत्वकारीत्यर्थः / बहिर्मुखोपजनकः इति बहिर्मुखत्वोपजनक इत्यर्थः / तीवावस्थानौ इति / कारणे कार्यमुपचर्येत्थमुक्तम् / तेन तीवावस्था तयोः कारणमित्यर्थः / तथा च वक्ष्यति-विशेषापेक्षित्वादिति आरोहावरोहनिमित्तमिति च / अनुपचारे तु विशेषरूपत्वादिति आरोहावरोहाविति च ब्रूयात् / विशेषापेक्षित्वात्तयोः इति / विशेष- 20 स्तीवावस्था / तयोरारोहावरोहयोः / ननु अवस्थातुरवस्था यदा भिन्ना तदाभ्युपगम्यतामोजःप्रसादयोस्तीवावस्थाया आरोहावरोहरूपत्वं, सङ्गच्छतां च तदानीमस्य पृथगुपादानम् / यदा पुनरवस्थातुरवस्था न भिद्यते तदा तीव्रावस्था ओजः-प्रसादावेव / तेन यद्यपि यद्यदोजो यो यः प्रसादस्तत्तदारोहः / स सोऽवरोह इति नास्ति तथापि यो य आरोहस्तत्तदोजः / यो योऽवरोहः स स प्रसाद इत्यस्ति / ततः सत्यं समाधिना ओजः-प्रसादौ न स्वीक्रियेते / 25 ओजः-प्रसादाभ्यां तु समाधिः सगृह्यत एवेति किमर्थमस्योपादानमित्याह-यद्वा क्रमविधान-इति। अस्मिन् पक्षे क्रमशब्दस्य मुख्य एवार्थो विवक्ष्यते / तेनौजः-प्रसादरूपयोरप्यारोहावरोहयोः शनैः शनैरनुरूपदीप्तिरूपस्य क्रमस्य यत् करणं तदेव प्रयोजनं यस्य तत्तथा तस्य भावस्तत्त्वम् / तस्मादारोहावरोहकमलक्षणस्य समाधेः पृथक्करणमिति / 1. -समासत्वात् ग. // 2-3. मध्यम...सहचरत्वात् इति ग. पुस्तके नास्ति / /