________________ दोषदर्शनम् दोषो न त्वपार्थाभासमिति अपार्थाभासस्यादोषत्वं ख्याप्यते न त्वपार्थस्य / तेनापार्थाभासस्य स्पष्टान्धकादेः प्रयोज्यत्वमत्रोक्तम् / एतावांस्तु विशेषः / पूर्वोक्तानामत्यन्तचारुता / स्पष्टान्धकादीनां तु मध्या स्थितिः / यद्यपि च कचित् प्रहेलिकादौ श्लिष्टोक्तेः प्रसरो दृश्यते, तथापि न सर्व तत्तथेति युक्तमपार्थाभासत्वेन प्रयोज्यत्वमेषामाख्यातुम् / समानप्रयत्नोच्चार्यतत्प्रतिच्छायशब्दबलात् / 5 कचिदलङ्कारान्तरवाक्यान्तरप्रतिभे / कचिदादावानर्थक्यप्रतिभासे पश्चात् समानप्रयत्नोच्चार्यशब्दबलेनाध्यवसायः / अयमनन्तरोक्तोऽर्थो विषयः स्पष्टान्धकादीनाम्। यथा रामेण निहतं दृष्ट्वा वने परशुना मृगम् / स्वकीयं निन्दति व्याधो विश्वकर्माणमर्जुनम् // रामेण कृष्णेन, परशुना परकीयशुना, विश्वकर्माणं विगतश्वव्यापारम् , अर्जुनं 10 शुक्लम् / तथा अष्टौ पुत्र कुरु श्लोकानिति पित्रोदितः सुतः / तेन पञ्च कृताः श्लोकाः पितुश्चाज्ञा न खण्डिता / / इति / अष्टौ छन्दोविशेषे / यदि वा यत्र वाक्ये प्रतिपन्नः संसर्गः पर्यालोचनया बाध्यते न चालङ्कारान्तरानु- 15 प्रवेशसम्भवेन परिहारः प्रयोगश्च दृश्यते तद्वाक्यमनेनापार्थदोषेण निरस्यते / यथा एते रुदन्ति हरिणा हरितं विमुच्य . हंसाश्च शोकविधुरा करुणं रसन्ति / नृत्यं त्यजन्ति शिखिनोऽपि विलोक्य देवीं . तिर्यग्गता वरममी न वयं मनुष्याः / / अत्र ना[चा ?]न्त तेवशब्दयोगेन रुदन्तीवेत्यादिसम्भावना। न च निमित्ताभावा दतिशयोक्तेरपि प्रसरोऽत एव न सम्बन्धः / इत्थम्भूतं तु काव्यं लौकिकी वाचोयुक्ति किलाङ्गीकृत्य कुर्वन्ति कवयः / न च तत्तथा लोके, निमित्ताश्रयणेन प्रयोगात् / यथा तया रुदत्या पक्षितृणपर्णान्यपि रोदितानि / नैवमभिहितवाक्ये निमित्तमस्तीति / / __ नास्ति सङ्गतिः इति / तदेदानीमित्यादिशब्दप्रयोगाभावादित्यर्थः / यस्मिन्न- 25 नेकम् इति / यस्मिन् वाक्ये वक्ता अनेकार्थवाचकानि पदानि जल्पन् स्वयमेवानेकमर्थमालोचयति तत्र तेषां पदानामसङ्गतिर्नैव दोषाय / विवक्षावशेन हि शब्दाः प्रयुज्यन्तेऽनेकं 1. नत्वलङ्कारत्वेन // 20