________________ कल्पलताविवेके ... अपरे तु समुदायार्थशून्यं यत्तदपार्थमुच्यत इति यत्र वाक्ये कस्यचित् पदस्य .. समन्वयो नास्ति तत्रेदं लक्षणं योजयन्ति / यथा मतिमोहविधायिनामभूत्य . प्रकृतीनां विकृतौ कृतोद्यमानाम् / मदमानरुषां प्रभुर्विधेयः ___ परितन्त्रो ननु सन्निपन्न एव // अत्र किल मतिमोहविधायिपदं न प्रकृतीनां विशेषणम् , नापि मदमानरुषाम् , इति नात्र वाक्ये संसर्गमनुभवति / तेनेदं वाक्यं समुदायार्थशून्यमित्यपार्थम् / विशेषणत्वेन हि संसर्गे मतिमोहविधायिनीनामिति पदं स्यात् / नैतदपि युक्तम् / प्रकृतीनां विकारे ये 10 कृतोद्यमास्तेषां विशेषणमेतन्मतिमोहविधायिपदम् / इत्थंभूतानां पुंसां यः प्रभुर्मदमानरुषां विधेय आयत्तः स परितन्त्रः परिभूततन्त्रः सन्निपन्नो विनष्टः इति नात्र वाक्ये कस्यचिदपि पदस्यासंसर्ग इति / ___ अन्ये पुनराहुः-यत्र वाक्येऽनेकधा व्याख्यानेऽपि न वाक्यार्थः सहृदयानां हृदयान्याविशति, अस्ति तु म्लिष्टप्रतिभासोऽर्थः तद्वाक्यमपार्थवदपार्थमित्युच्यते / यथा देवा15 कानिनि, वेत्रशाककुज इत्यादि / एतदपि न युक्तम् / नातिव्याख्येयमिति वचनात् / तथा काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवदिति / सुधियां ह्यतिव्याख्येयमपि काव्यं नेष्टं, किमङ्ग पुनर्यस्यातिव्याख्यानेऽपि न स्पष्टार्थप्रतिभासः / तस्मान्नास्यापार्थदोषस्य कथञ्चिदपि फलवत्ता / अत्रोच्यते / सत्यम् / अव्यवच्छिन्नव्यवच्छेद्याभावान्नार्थोऽपार्थदोषेण / किन्त्वेतदा20 भासानां स्पष्टान्धकप्रहेलिकादीनां प्रयोज्यत्वमिष्टम् / तदनेन व्यर्थैकार्थससंशयेमध्यपातिना ज्ञाप्यते / व्यर्थादीनां ह्याभासा विरोधालङ्कारयमकलाटीयानुप्रासससन्देहास्ते अलङ्कारवर्गमध्यपातेन प्रयोगार्हाः / एवमपार्थाभासा अपि प्रहेलिकादयः प्रयोज्याः।। __ अयमभिप्रायः / किञ्चित् काव्यं लक्षणेन व्यवच्छिन्नम् / किञ्चिच्च काव्यविशेषलक्षणेन अर्थ्यमित्यादिना / तथा नातिव्याख्येयमिति / अपरमेकार्थदोषेण / अतोऽत्रा25 व्यवच्छिन्नं व्यवच्छेद्यं नास्ति / सर्वस्यैव लक्षणान्तरैः पराकृतत्वात् / किञ्चिच्च निरीक्ष्य विद्युन्नयनैरित्यादि / तथा मतिमोहविधायिनामित्यादि व्यवच्छेदानहमेव / उपपन्नत्वात् / अतश्च यद्वयवच्छेदाह तदव्यवच्छिन्नं नास्ति इत्यपार्थदोषो न वक्तव्यः / उक्तश्च / अत इयं परिसङ्ख्या, प्राप्ते वचनमनन्यार्थत्वे सतीत्येवंविधलक्षणलक्षिता / अनया चापार्थमेव 1. एवंविधः सन् प्रभुरभूत्यै भवति // 2. अमात्यादीनाम्॥ 3 चकारो दृश्यः॥ 4. परिभूत परिच्छदः॥ 5. -र्थसंशय-ख. // 6 काव्य ख. // 7. तथानति - ख. // 8. अनन्यप्रयोजनत्वे //