________________ कल्पलताविवेके सौगतैस्तु यथार्थदर्शनेऽनिबद्धप्रलापस्य यत्नेन परिहार्यत्वाजल्पवितण्डानङ्गीकरणेन वाद एव सम्यकथास्वभावः कथारूपतयाङ्गीकृतः / जातयो दूषणाभासाः इति / यदुक्तं नैयायिकैः-साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिरिति / यथाऽग्निमान् पर्वतो धूमवत्वादिति / अत्र महानससाधर्म्यण दूषगाभासेन प्रत्यवतिष्ठते / यदि महानसगतधूमवत्त्वसाधात् पर्वतस्य वह्निमत्तेत्यभिधीयते, ततो रसवतीसंस्कारहेतुत्वमपि पर्वतस्य महानससाधया॑त् कस्मान्न स्यात् / इति साधर्म्यसमाश्रयादूषणाभासस्वभावया जात्या प्रत्यवस्थानम् / - वैधर्येण तु यथा-पर्वतस्य धूमवत्तया महानसेन साधर्म्य तथा शिलाद्युपचितत्वेन महानसवैधर्म्यमपि विद्यते / अतश्चैतद्यथा वैधयं तथा महानसस्याग्निमत्त्वेऽपि पर्वतस्याग्निशून्यता स्यात् / एते च जाती साधर्म्यवैधर्म्यप्रत्यवस्थानात्मिके दूषणाभासत्वेनावस्थिते / धूभवत्ताया अग्निमत्वं प्रति प्रयोजकत्वात् / रसवतीसंस्कारहेतुत्वं प्रत्यप्रयोजकत्वात् / एवं शिलाघनत्वस्यापि वह्नयभावं प्रत्यप्रयोजकत्वमुन्नेयम् / छलत्रयमपि तु जात्यविशिष्टस्वभावमिति न पृथक् सूचितमत्र / . को हि विशेषो दूषणाभासत्वे जातीनां छलस्य च / तथाहि-छलस्य सामान्यलक्षणम्-'वचनविघातोऽर्थविकल्पोपपत्या छलम्' इति। तच्च त्रैविध्येनोक्तं वाक्छलोपचारच्छलसामान्यच्छलभेदेन / तत्र वाक्छलं यत्रानेकार्थे शब्देऽर्थान्तराभिसन्धानेन प्रयुक्ते तद्व्यतिरिक्तार्थान्तरसमाश्रयेण प्रत्यवस्थानं क्रियते / यथा केनचित् प्रत्यग्रकम्बलप्राप्तिरस्येत्यर्थाभिसन्धानेन नवः कम्बो यस्यासौ नवकम्बल इति प्रयुक्ते, सङ्ख्यावाचिनवशब्दाश्रयेण यदा पर. प्रत्यवतिष्ठते-एक एवास्य कम्बलो न तु नव कम्बला इति, तदान्यार्थाभिसन्धानेन प्रयुक्ते वाचके शब्देऽर्थान्तरविकल्पसंभावनया तस्यार्थस्य विहन्यमानत्वात् वाक्छलं भवति / वाचि वाचके शब्दे छलमित्यर्थः / औपचारिकसमाश्रयेण तु मञ्चाः क्रोशन्तीत्यादेः प्रयुक्तस्य वाक्यस्य यदा मुख्यार्थसमाश्रयेग मञ्चस्याचेतनत्वात् क्रोशनक्रियाकर्तृत्वं नोपपद्यत इति परेण प्रत्यवस्थीयते तदा उपचारस्य मुख्येनार्थेन व्याकुलीकृतत्वादुपचारच्छलम् / ___ यत्र तु विशेषनिष्ठतया शब्दे प्रयुक्ते सामान्यसमाश्रयणेन वचनविघातः क्रियते तत्र विशेषेऽभिधित्सिते सामान्यविधानस्यारोपात् सामान्यच्छलम् / यथाऽहो नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति / असावित्येतच्छब्दवाच्यार्थविशिष्टद्विजोत्तमविशेषोद्देशेन विद्याचरणसम्पन्नत्वे विधित्सिते यदाऽपरो वाक्यार्थान्तरकल्पनया प्रत्यवस्थानं कुर्वीत-असावित्येतेन शब्देन कस्मिंश्चिदुद्दिष्टे धर्मिणि पुरुषविशेषे विद्याचरणसंपन्नत्वं भवता साधयितुमिष्यते / 1. पर्यनुयोगः / / 2. धूमवत्तायाः // 3. आचार // 4. व्यापारेण //