________________ दोषदर्शनम् प्रतिज्ञाहेतुदृष्टान्तदुष्टमिति बहुव्रीहिणा प्रतिज्ञादिवाक्यानां दुषिक्रियाकर्तृत्वेनोक्तत्वात् / अनुद्भावितदोषाणां च तेषां दुषिक्रियाकर्तृत्वस्य व्यवहारानङ्गत्वात् , आर्थेन रूपेण तद्दोषोद्भावनयोगीनि प्रतिवादिवाक्यान्युद्दिष्टानि भवन्त्येवेत्यार्थस्योदेशस्य भावः सुभणः / एवमसौ किलात्र दूषणोदेशस्याभावः स्यात् / / ___ यद्यन्येषु प्रायोपवेशाय यथेत्यादिवक्ष्यमाणदिशा दुषिक्रियाकर्तृषु धर्मादिषु यानि प्रतिज्ञादीनि विरोधकानि तान्येवात्र प्रतिज्ञाहेतुदृष्टान्तैर्दुष्टमिति तृतीयासमाससमाश्रयणेनोद्दिष्टानि भवेयुः / न चैवं, यत्र प्रतिज्ञादीनि दुष्टानि यच्च प्रतिज्ञादिभिर्दूष्यते इति द्विविधस्यापि समासस्याश्रितत्वात् / अतश्च यत्र प्रतिज्ञादिवाक्यानि दुष्टानि तत्र तदुष्टतोद्भावनयोगीनि दूषणरूपाणि प्रतिवादिवाक्यान्यर्थत उद्दिष्टान्येव भवन्ति / प्रतिज्ञादिदुष्टेस्तदुद्भावनयोगीनि प्रतिवादिवाक्यान्यन्तरेणाव्यवहार्यत्वादित्यत्र न उद्देशपूर्वकत्वाभाव इति कुतोऽकाण्डकूष्माण्डापातप्रख्यता। यद्यपि “तदर्थहेतुसिद्धान्तसर्वागमविरोधिनी” इत्यादिनैव प्रतिज्ञाद्याभाससंदर्शनेनाक्षिप्तत्वाद्दूषणगतस्योदेशलक्षणपरीक्षात्मकस्य प्रपञ्चस्य स्वकण्ठेनाभिधानमकारणम् / तथापि प्रतिज्ञाद्याभासानां प्रतिज्ञादीनाभासयन्त्ययथार्थतयाऽवगमयन्तीति ण्यन्ताद्भासेः कर्मण्यणि प्रतिज्ञाद्ययथार्थतोद्भावनोपयोगिनां प्रतिवादिवाक्यानां दूषगरूपता तत्र नोक्ता / ततः सा “दूषणा न्यूनतायुक्तिः" इत्यनेन ग्रन्थेन प्रतिपाद्यत इत्यर्थः / अर्थादाक्षेप यो दूषणविचारस्य मन्दबुद्धिर्न मन्यते तदनुग्रहाय दूषणविचारः कृत इत्यर्थः / प्रतिवादिवाक्यप्रतिबिम्बरूपतया सा प्रतिज्ञा दिदुष्टता व्यवहारोपयोगाय निदर्यत इति यावत् / अथवा प्रतिज्ञाद्याभासशब्देन प्रतिज्ञादिवाक्यान्येवायाथातथ्येन प्रयुक्तान्यभिधीयन्ते। अस्मिंश्च पक्षे तेषां दूषणरूपता नोक्तेत्यत्र ग्रन्थे दूषणरूपप्रतिवादिवाक्यप्रतिबिम्बितत्वेने दूषणरूपतौपचारिकी द्रष्टव्या / स्थितमेतत् / दूषणानां प्रतिज्ञाद्याभासाक्षिप्तानामपि वैशिष्टयार्थ "दूषणा न्यूनतायुक्तिः” इति स्वशब्देनाभिधानमिति / कथाया इति / कथा वादजल्पवितण्डात्मिका / यदुक्तम्-तिस्रः कथा भवन्ति, वादो जल्पो वितण्डा चेति / तत्र जल्पवितण्डे परविहेठनार्थत्वेनापि व्यवस्थिते परेणासमञ्जसाभिधानेन व्याकुलीक्रियमाणस्य "यादृशों यक्षस्तादृशो बलिः' इति न्यायेन तथाविधेनैवै प्रकारेणावध्वंसनं न्याय्यमिति तत्वाध्यवसायसंरक्षणार्थतया प्रतिपादिते / 1. प्रतिबिम्बं संजातं येषां प्रतिवादिवाक्यानां तेषां भावस्तत्त्वम् पश्चात् समासः // 2 वादिनः सम्बन्धित्वेन प्रतिपादित इति योगः // 3 असमञ्जसरूपेण // 4, यस्मात् अवध्वंसनं क्रियते प्रतिवादिनो वादिना इति न्याय्येत्यादिकस्य योगः / /