________________ कल्पलताविवेके गुणाढयः इति / गुणाढ्यः कविः / सुबन्धुर्व्याख्याता / सालङ्कायनः इति / सालङ्कायननामा प्रद्योतस्य राज्ञो यन्त्रमल्लाध्यक्षः / गजच्छद्म-इति / वनविचारिचर्ममयगजान्तर्गतयोद्पुरुषशतेन वत्सराजो बद्ध इति ह्याम्नायः। तथैव कार्यसिद्धिम् इति / यथैव स वत्सराजबन्धः प्रस्तुतस्तेनैव वासवदत्तालाभलक्षणां स्वार्थसिद्धिमिच्छन्त इत्यर्थः / 5 उपेक्षितम् इति / शत्रुभिरभिभवनं भावीति शेषः / शराढधनुः इति / एतदुक्तं भवति / तेजस्वी वत्सराजः, स नैवमेव बन्धुं शक्यते / तेन युध्यमानस्यास्य द्वेषिमुक्तैर्बाणैर्न विपत्तिभविष्यतीत्यत्र किमनुमानं, का युक्तिरित्यर्थः / अथ न चारशून्यता नापि सचिवोपेक्षा / किन्तु रुमण्वत्प्रभृतिभिर्वत्सराजमन्त्रिभिः प्रद्योतेन सह संभूय मन्त्रयुक्त्या तत्समुत्थानं कृतमित्यदोष इत्याह-हतोऽनेन इति / 10 नमोऽस्तु इति / संभूय समुत्थाने हि वक्ष्यमाणानां पञ्चानां चोद्यानां स्थूलमतिविकल्पनया दुष्परिहारमाशङ्कमानस्य सोत्प्रासेयमुक्तिः / परमार्थतस्तु कृतात्मभिस्तान्यपि परिहियन्त एव / यत् स एवात्मन औद्धत्यं परिहरन्नध्यायसमाप्तावुक्तवान् न दूषणायायमुदाहृतो विधि न चाभिमानेन किमु प्रतीतये / कृतात्मनां तत्त्वविदां च मादृशो जनोऽभिसन्धि क इवावभोत्स्यते // ___ नायं प्रपञ्चो मया कृतो महतां कवीनां मतानि दूषयिष्यामीति मत्सरेण / किन्तु निदर्शनानि विना सर्वप्रतिपाद्यानां स्पष्टाः प्रतीतयो न भवन्तीति स्थूलमतिजनप्रकल्पितार्थ गुणाढ्यादिकाव्यमुदाहरणीकृतम् / किं कारणमित्याह-कृतात्मनाम् इत्यादि / कृतात्मनां 20 संस्कृतमतीनां तत्त्वविदां परमार्थवेदिनां मादृशो जनः परितुच्छमतिरभिप्रायमवबोद्धं नाल मिति वाक्यार्थः / अनेनैतदर्शयति / बृहत्कथादौ यदि प्राज्ञास्तात्पर्यान्तरं प्रकल्पयेयुस्तदाप्यस्मन्मतदूषणपरं तन्न भवतीति / यतो वयं स्थूलमतिप्रकल्पितार्थ बृहत्कथाखण्डमुदाहरणीकृतवन्त इति / ननु च प्राज्ञैः सुबन्धुप्रभृतिभिरिह बृहत्कथाप्रदेशे महासेनेन सह रुमण्वदादीनां 25 मन्त्रिणां संभूय समुत्थानं वत्सेश्वरबन्धनाय कन्यालाभहेतुत्वात् न्याय्यं स्थापितम् / अत्र च दुष्परिहराणि पञ्च चोद्यानि विष्णुगुप्तेनोद्भावितानीति कथं निरवद्यपक्षाशङ्कयेदमुक्तम्कृतात्मनां तत्वदृशाम् इत्यादि / तानि पुनश्चोद्यानि-वत्सेशस्य बद्ध्वोज्जयनीनयनेने न किञ्चित् प्रयोजनम् [1] / स्वराष्ट्र सत्यपि वत्सराजे प्रत्यासन्नात् पश्चालाधिपाद् आरुणे 1. गतं क. // 2 नयने ग. // 3. राजप्रत्या-क // 15