________________ 10 दोषदर्शनम् यदा षष्ठ्यन्तं तदा स्थायिशब्दः किं मुख्यार्थवृत्तिरुत लाक्षणिकार्थावगाही / यदि मुख्यार्थवृत्तिः, स्थायिनो रसस्येति सामानाधिकरण्यानुपपत्तिः / भिन्नप्रवृत्तिनिमित्तयोरकस्मिन्नर्थे वृत्तौ सत्यां सामानाधिकरण्यं भवति / अत्र च स्थायिरसशब्दयोः सत्यपि भिन्नप्रवृत्तिनिमित्तत्वे यथाक्रमं भावरसविषयत्वेन एकार्थवृत्तित्वं नास्ति, कुतः सामानाधिकरण्यम् / तदेवं स्थायिशब्दस्य मुख्यार्थवृत्तित्वे सामानाधिकरण्यासम्भवः / अथ स्थायिभावप्रभवत्वाद्रसानामायुघृतमितिवदध्यारोपगर्भशुद्धोपचारमिश्रलक्षणासमाश्रयेण स्थायिनो रसस्येति सामानाधिकरण्यं समर्खेत / एवमपि स्थायिभावप्रभवत्वं रसा न व्यभिचरन्तीति व्यभिचाराभावादुष्णोऽग्निरितिवद्विशेषणस्यानुपयोगः / अथ प्रथमाबहुवचनान्तं स्थायिनो भावाः सञ्चारिणश्च / यथा रसस्यार्थे प्रवर्त्तन्ते तद्वनेतुर्महीभृतः // इति / चशब्दश्चात्राध्याहरणीयः / तन्न / न हि बहवः स्थायिन एकस्य रसस्यार्थे प्रवर्त्तन्ते / सर्वरसानां खलु प्रतिनियताः स्थायिनस्ते प्रत्येकं रसोत्पत्तौ उपयोगमनुभवन्ति / न चैतत् “जात्याख्यायां बहुवचनम्" इति वक्तुं शक्यम् / स्थायिशब्दस्य जातिनिमित्तत्वाभावात् / न खलु स्थायिशब्दो गवादिवजातिनिमित्तकः / तिष्ठन्त्यभीक्ष्णमिति स्थायिन इति / न च यो योऽभीक्ष्णं तिष्ठति पर्वतादिस्तस्य स्थायिशब्देनाभिधानम् / 15 पदार्थान्तरानन्वयिन्या रत्यादिभावनवकैकनियतायाः स्थितेः स्थायिशब्दप्रवृत्तिनिमित्तत्वात् / इति जातिशब्दत्वाभावेन तदपेक्षस्य बहुवचनस्यानुपपत्तिः / पञ्चमीविभक्तिपक्षेऽपि व्यर्थमेवैतत्स्थायिग्रहणम् / न ह्यस्थायिनः सकाशात् कस्यचिद्रसस्य संभवः / कर्मत्वापादनक्रियायाश्चाभावान्न द्वितीयाबहुवचनान्तमेतत्पदमत्र वाक्ये समन्वेति / 20 न चान्या गतिरस्तीति / तेनात्र स्थायिन इति बहुवचनपक्षे एकस्य रसस्यार्थे बहूनां स्थायिभावानामप्रवर्तमानत्वान्नाटयकलाविरोधः / षष्ठीपञ्चमीपक्षयोस्तु स्थायिशब्दस्यास्थायिकारणकत्वं व्यावर्त्तयितुमुपात्तत्वाद्रसानां चास्थायिकारणकत्वस्यासंभवाद् व्यावर्तनीयापेक्षया नाट्यकलाविरोधो योज्यः / न्यायः शास्त्रम् इति / न्यायः शास्त्रं ये तां त्रिवर्गोक्तिं दण्डनीति च विदुरित्यर्थः। 25 लोकपक्त्या(रक्त्या?) इति। लोकरञ्जनार्थत्वेनेत्यर्थः / अर्जन इत्यादि। तथा च स्मृतिः। "अलब्धमिच्छेद् दण्डेन लब्धं यत्नेन पालयेत् / पालितं वर्द्धयेद् वृद्धया वृद्धं पात्रेषु निक्षिपेत् // " 1. कर्मत्वापादान-क. // 2. कत्वं रसानां व्याव-ख. // 3. न्यायशास्त्र-ख. //