________________ से हिरण्णगारे जज्जरीए अनिदाए पुरुसे नयरमझे वित्थरिया। अन्नोन्नं बहुजण एवं संलवंति-जज्जरहिरण्णगारे अनिदाए अत्थि / से अनिद्दपुरिसे राया सद्दाविया एवं वयासी - भो अनिद्द हिरण्णगारा! मम अंतेउरं भंडारोवरिं चिट्ठह / तेणं विलोयह। तए णं ते अनिद्दपुरिसा तह त्ति / रायपसायं गिन्हमाणे उड्डगवक्खेणं सयाए ठियो। चोद्दिसं भंडागारं अंतेउरं विलोयमाणे विहरइ। तए णं मज्झरयणी समए अंतेउरपिट्ठदुवारे पट्टगयंद कुंतारसहियमागया। तत्थ पट्टदेवी गयंदनासाए विलगा। हत्थिपुट्ठिठिया। तत्थ कुंतार पट्टदेवी सद्धिं भोगं भुंजइ। भुंजइत्ता पट्टदेवी गयंदनासाए गहिए नियगवक्खं गया / तओ पच्छा कुंतार गयंदसहि पडिगयो। पूर्वमार्तध्यानोपगतोऽभूत्तन्मिथ्याऽऽत्मानं परिक्लिश्यन्नभुवं तन्मया वृथा, शोचनौदासीन्यं विहितम् / यतो महामाण्डलिकाः, महाछत्रपतयः, बहुविज्ञानकुशलाः, भञ्जनघटनसमर्थाः, महापराक्रमाः, प्रत्यक्षसहस्राक्षप्रतिमाः, नरपतयस्तेऽपि स्त्रीभिरङ्गुल्यग्रे नर्तिताः / इन्द्रचन्द्रकेशवरुद्रादयोऽपि मुषितास्तदाहं महामूढोऽस्मि / वृथा शोचयामि / यदेतद्राजवेश्मनीदृग्विधं स्त्रीचरित्रम्, तदा किं नाम मदीयं गृहं मन्ये / एवं विचिन्त्यार्त्तध्यानं विसृज्य सुप्तः / सुखेन निद्रा तस्यागता। यताउक्तं भारतीये नाट्यशास्त्रे निद्राकारणानि, एभ्यो निद्रा संभवन्ति। आलस्याद् दौर्बल्यात्क्लमाच्छ्रमाच्चिन्तनात्स्वभावाच्च / ___ रात्रौ जागरणादपि निद्रा पुरुषस्य संभवति // 1 // ततो विभातसमये राजपुरुषैरागत्य जागरितोऽपि न जागर्ति / कथञ्चिन्महता कष्टेन जजागार / ततस्ते राजपुरुषास्तं गवाक्षारुढकं वृद्धकलादं राज्ञः समीपं समानयन्ति / ततो राज्ञा प्रणामानन्तरं तं पृष्टम्। भो वृद्धकलाद ! केन हेतुनाऽतिप्रमीला तवाद्यागता, सत्यं वद / भो ! अन्यदिनेषु जागरुको प्राहरीक आसीस्त्वम् / ततो राज्ञो भृशमाग्रहात्तेनोक्तम् - स्वामिन् ! मा पृच्छ न वदाम्यहम् / पुनरपि भूपतिना विशेषतः पृष्टः / केन हेतुना निद्रा प्रचुरा तवागता। तदा राज्ञा मुहुर्मुहुन्द्रिाकारणे पृष्टे सति स हिरण्यकारो राज्ञोऽग्रे श्वसुरो वधूदुश्चरित्रं पूर्वं प्रकाशितवान् / पश्चाद्राज्ञस्त्रीचरित्रं जंबु अज्झयणं : जम्बूचरितम्