________________ तुमं तेणं मम पुत्त, मा रोयह / 2 / मम पाणवल्लह कुबेरदत्त तस्स तुमं बंधव तेण मम तुम देउर, मा रोयह / 3 / मम बंधवस्स तुमं पुतं तेण तुमे मम भत्तीज, मा रोयह / 4 / मम मायापति तस्स तुमं बंधव तेणं तुम मम पित्तिय, मा रोयह / 5 / मम सवक्क पुत्तस्स तुमं पुत्तं तेण तुमं मम पउत्त, मा रोयह / 6 / ए छ नायरे साहुणी पोअ सद्धिं भासियाइ / तओ पच्छा साहुणी छ नायरे बंधव कुबेरदत्त सद्धिं भासा तं जहा - भो कुबेरदत्त ! सुणेह - तुम मम एगमाया तेणं तुमं मम बंधव सुणेह।१। विलोकयति / भ्रातृचरित्रं द्योतयति। ततः स कुबेरदत्तः व्यवहारार्थं मथुरां प्राप्तः / कर्मवशतस्तत्रैव पुरि विषयविकारव्यापारवशंगतः / कुबेरसेनावेश्यां सुरूपां दृष्ट्वा तया जनयित्र्या सह कन्दर्पसर्पो दृष्टो मोहंगतः / अज्ञानकर्मोदयबाहुल्यात् तं तथाविधं महामोहग्रस्तं कुबेरदत्तं कुबेरसेनासार्धं विलसन्तं ततश्च तमेवैकपुत्रप्रजातं विज्ञाय दृष्ट्वा च कुबेरदत्ता साध्वी तच्चरित्रं शीर्ष धूनयति / संसारासारतां विचार्येत्थं वक्ति - हा धिग् विषयकर्मणो मोहकर्मणो येनाऽयं जीवः कार्याकार्यं न वेत्ति, यतो जीवो धनायुःस्त्रीषु न कदापि तृप्त इति / विषयवशतो भ्रातरं मदनानलज्वालाकुलकलितं दृष्ट्वा साध्वी वक्ति - कुबेरदत्तोऽयं मातरमजानानो मातुः सार्धं भोगान् भुनक्ति। ततः सुतः सवित्र्या सह लुब्धः / अऽतोऽहं प्रतिबोधार्थं तत्र व्रजामि / मनसैवं कुबेरदत्ता साध्वी विचिन्तयति / तत इत्थं विचिन्त्य गुरुण्यभ्यनुज्ञाता प्रदत्तादेशा ततो विजहार / क्रमानुक्रमेण मथुरायामाजगाम ततो यत्र कुबेरसेनावाराङ्गनागृहं तत्रैवोपागात् / उपागत्य च कुबेरसेनां पण्याङ्गनामेवं वदति - कुबेरसेने! मामुपाश्रयं दापयत / तदा वेश्या वदति - शालैषा सुन्दरा तत्र निवासं कुरु / तत्र तिष्ठ / तदा साध्व्या विचारितम् - एषोपशमरसमयी येनानयोपशमरसमयं वाक्यं प्रयुक्तमिति कृत्वा सा वेश्यायाः सुलभबोधित्वं विज्ञातम् / साध्व्या विज्ञाय च तत्रैव तद्वसत्यां चानुज्ञाता समुपस्थिता तत्र शालायामुषिता / तस्यां शालायां मध्यगृहे कुबेरसेनासार्धं जंबु अज्झयणं : जम्बूचरितम् 27