________________ वयासी - भयवं! एस देवे को भविस्सइ ? सेणिआ! अपच्छिमजंबूनामं केवली भविस्सइ / तए णं सेणिए राया विणएणं पुच्छइ-भयवं! जंबूपंचभवदिटुंते उवदंसेह | तए णं समणे भगवं महावीरे महुरवाणीएणं एवं वयासी - सेणीया! इहेव जंबूद्दीवे द्दीवे भारहे वासे सुग्गामनामं नयरे होत्था / तत्थ णं रावड नाम पामरे वसइ / तस्स भारिया रेवइ नामं / तस्स अत्तए रावडपुत्ते दुवे पन्नत्ते / तं जहा भवदेवे, भावदेवे होत्था / तए णं भवदेवे साहुसंजोए संजमेणं विहरइ / अण्णया कयाइ से भवदेवे नामं अणगारे सुग्गामनयरे उवागच्छइ / भावदेवे बंधवे पडिबोहइ / नायला णामं भारिया नवपरणीया चयइ / लज्जाए संजमेणं विहरइ। दुवालससंवच्छरंतरिए भवदेवणामं अणगारे अणसणे देवलोए एगावयारे सिज्झिस्सइ। तस्यां दिशि पुनरपि प्रतिगतः / तदनन्तरं श्रेणिकराजा स्वस्थानागकदुत्थाय भगवदन्तिकमागत्य पर्युपासन्नेवं वदति - भगवन् ! एषो देवः को भविष्यति ? श्रेणिकप्रश्नानन्तरं भगवानेवमुवाच - श्रेणिक ! असौ देवजीवोऽपश्चिमजम्बूनाम केवली भविष्यति / ततः श्रेणिको विनयेन भगवन्तं परिपृच्छति - भगवन् ! जम्बूस्वामीपञ्चभवदृष्टान्तानुपदिशत / ततः श्रमणो भगवान् महावीरो मधुरवाण्या मेघगर्जितगम्भीरध्वनिनवमवादीत् - . भो श्रेणिक! अत्रैव जम्बूनाम्नि द्वीपे भारतवर्षे सुग्रामेति नाम नगरमभूत् / तत्र नगरे रावडनामा कश्चित्पामरः परिवसति / तस्य भार्या रेवतीनाम्नी। तस्यात्मजौ द्वौ प्रज्ञप्तौ, तथा च भवदेवो भावदेवश्च। ततो भवदेवः साधुसंयोगेनाल्पकर्मत्वेन वैराग्यात्प्रव्रजितः / साधुगुणैरनुगतः संयमेन तपसा चात्मानं भावयन्विचरति / अन्यदा कदाचित् स भवदेवसाधुः सुग्रामनगरे विहारं कुर्वन्समुपागतो भावदेवानुजं प्रतिबोधार्थम् / ततोऽनुक्रमेण भावमनोवृत्त्यानुजं सादरं प्रतिबोध्य साधुत्वं प्रापितः / नागिलानाम्नी तद्भार्यां नवयौवनां त्यक्त्वा विहारं चकार / लज्जया संयमं पालयति / अथ च द्वादशसंवत्सरानन्तरं भवदेवा-नगारोऽनशनेन समाधिमरणेन मृत्वा देवलोके देवोऽभूत् / ततश्च्युत्वैकावतारेण सिद्धिसुखं प्राप्स्यति / जंबु अज्झयणं : जम्बूचरितम्