SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जंबू! तयरा णाम नयरीए दत्त णामं वणिजो वसइ / तस्स भारिया भद्दा। तस्स पुत्त अरहण्ण। साहु संजोए तेणं तओ पव्वज्जाए समागया। पुत्त भिक्खायरिया न नियासेइ सुकुमालट्ठाए। केणदिणे साहुपिया दिवं गतः / तओ पच्छा अरहण्णनिग्गंथे गोअरग्ग पविट्ठो / तेणं समए उण्हकाले होत्था / अरहण्णगओ उण्हकाले परिसह असहमाणो को वि ववहारीगिहच्छाए ठियो। तए णं ववहारगइत्थी तस्स पइ परदेस निग्गयो। अईव विरहणी से णं गवक्खे ठिए। सुंदर को वि विमलसाहु अरहण्णगं पासइ / पासइत्ता हट्ठा / कामविहवला जाया / स निग्गंथ सद्दाविया एवं वयासी। सामी ! एस जुव्वणे संजमं न जुत्तं / दुस्सहमग्गं मा धरेह। एस जरासमयलक्खणे / तुमं मम गिहे चिट्ठह / मम धणं मम सरीरं विलसेह / अरहण्णग अणगारो भो जम्बु ! यथा मेघकुमारो ज्ञाताधर्मकथायां प्रथमाध्ययने संयमे विरक्तचित्तोऽभूत् तथा पश्चात्तापो भवतोऽपि भविष्यति तस्मान्मनस्थिरं कुरु / यथाऽरहन्नकस्तथा त्वमपि संयमेऽस्थिरचित्तो भविष्यसि / तदा जम्बू वक्ति-भगवन् ! कोऽयमरहन्नको / जम्बु ! श्रुणु तगरानगर्यां दत्तनामा वणिक्परिवसति / तस्य भद्रा भार्या / सुतोऽरहन्नकस्ततस्ते त्रयोऽपि साधुसंयोगतो वैराग्याच्च प्रव्रजिताः / ततः पितासाधुः सुतं भिक्षाचर्यायां न निष्कासयति सुकुमालनिमितम् / कतिपयदिनेषु गतेषु साधुपिता दिवंगतः। ततः पश्चादरहन्नकनिम्रन्थो गौचर्यां प्रविष्टो निर्गतः / तस्मिन्समय उष्णकालोऽभवत् / तदानीमरहन्नकोष्णपरिषहं निदाघमसहमानः कस्यचिद्व्यवहारिकगृहाधच्छायायां स्थितः / स्त्रीपतिः स्वयमेव व्यवहारकृते परदेशे प्रवासे निर्गतोऽस्ति। ततः सा प्रोष्यभर्तृकातीवविरहिणी गवाक्षजालकोपरि स्थितास्ति / सा सुन्दरं सुकुमालाङ्गं सलावण्यं सयौवनमरहन्नकं साधुं पश्यति / तं विलोक्य हृष्टा तुष्टा कामविह्वला जाता। स्वचेटी तमाह्वानाय प्रेषिता / सा दासी मन्दिरादुत्तीर्णा यत्रैवाधोभूमिं तत्र गत्वैवं वक्ति - भो निर्ग्रन्थसाधो ! मत्स्वामिनी त्वामाकारयति यावत्त्वां शब्दापयति / ततः साधुस्तद्दर्शितसोपानावल्यां चटितस्तद्वचसा मन्दिरो-परिभूम्यां गतः / तदानीं जंबु अज्झयणं : जम्बूचरितम्
SR No.032750
Book TitleJambu Azzayanam and Jambu Charitam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2017
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy