________________ अवतरणिका जगजीव-परमेश्वर-विषयक-जिज्ञासासमाधानार्थम् आदिकालतः प्रज्ञावन्तो मनीषिणो विश्वस्मिन् प्रयतमाना दरीदृश्यन्ते। जड-जीव-परमात्म-विवेचन-प्रधाने भारते तु महर्षीणाम्, आचार्याणाम्, नित्यानित्यविवेकशालिनां मतिमतां विदुषाञ्च मानसानि एतद्गभीर-विचारसागर-मन्थनपराणि प्राचीनकालादेव अवलोक्यन्ते। एतद्विचारसागरमथनसमुद्भूतानि दर्शनपथमागतानि विविधानि रत्नानि अद्यापि विनाशयन्ति जाड्यमोह-तमोनिवहम्, अपसारयन्ति नास्तिक मतमत्तङ्गज-तिमिर-निकरम् प्रकाशयन्ति च सदसद्विषयकं ज्ञानराशिम्।अनेन सदसद्विज्ञानेनसतो विशेषता, उपादेयता असतश्च तुच्छता, हेयता विज्ञायते मानव-जीवन-साफल्याय परमपुरुषार्थश्च अवाप्यते। जड-जीव-ब्रह्म-विषयकोऽयं विचारः मन्त्र-ब्राह्मणात्मके वेदे समुपलभ्यते। वेदस्य चरमांशे उपनिषद्रपे तु अयमेव विचारः प्राधान्यमाधत्ते। इममेव उपनिषद्पमाधारमवलम्ब्य गौतम-कणाद-कपिल-पतञ्जलि-जैमिनिबादरायण-महर्षिभिः तत्त्वदर्शिभिः न्याय-वैशेषिक-सांख्ययोग-मीमांसा-वेदान्तरूपाणि दर्शनशास्त्राणि प्रवर्तितानि। एतेषु च विशिष्टेषु सूत्ररूपनिबद्धेषु दर्शनेषु तत्त्वज्ञानशालिनाम् आचार्याणां भाष्याणि वार्त्तिकानि च दर्शनगूढरहस्यानि समुद्घाटयन्ति। तत्र न्यायदर्शने वात्स्यायन-भाष्यम्, उद्योतकरस्य वार्तिकम्, वाचस्पतिमिश्रस्य तात्पर्यम्, जयन्तभट्टस्य न्यायमञ्जरी, उदयनाचार्यस्य तात्पर्यपरिशुद्धिः, गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिः इत्यादीनि ग्रन्थरत्नानि गूढतत्त्वानि प्रकाशयन्ति; येन प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्कनिर्णय-वाद-जल्प-वितण्डा हेत्वाभास-च्छल-जाति-निग्रहस्थानानां षोडशानां पदार्थानां यथार्थज्ञानात् परमपुरुषार्थस्य निःश्रेयसस्याधिगमो भवति। मिथ्याज्ञाननिवृत्तेश्च प्रवृत्ति-जन्मनोरभावात् आत्यन्तिक दुःखाभावो भवति। वैशेषिकदर्शनेप्रशस्तपादभाष्यम्, उदयनाचार्यस्य किरणावली,शङ्करमिश्रस्य उपस्कारः इत्येवमादयो ग्रन्थाः तत्त्वं समुद्घाटयन्ति, येन द्रव्य-गुण-कर्म