________________ 184 गद्यसंग्रहः क्षणध्वंसानधिकरणक्षणाऽप्रसिद्धः। यदि च नवोत्पन्नेन देहेन आत्मन आद्यो विजातीयः संयोग एव तजन्मत्वेनोपचर्यते तदा तादृशो जन्मोपचारो मनोद्वारेण देहात्मवादेऽपि शक्योपपत्तिक एव, तद्वादे देहस्य तथा जन्माभावेऽपि तज्जन्यादृष्टविशिष्टमनसो भाविना नवेन देहेन सह तादृशसम्बन्धसंभवात्। तादृशसम्बन्धस्यैव तज्जन्मत्वेनाचरितुं शक्यत्वात्। देहात्मवादे बन्धमोक्षव्यवस्थाया अनुपपत्तिरपि नापादयितुं शक्या, शरीरान्तरभोग्यफलौपयिकादृष्टजनककर्मकर्तृत्वमेव बन्धः, तदभाव एव मोक्ष इत्येवं बन्धमोक्षयोः निर्वचनसम्भवात्। तथाहि यस्मिन् देहे न देहात्मत्वस्वरूपतत्त्वस्य योगप्रभवः साक्षात्कारः स शरीरान्तरभोग्यफलौपयिकादृष्टजनककर्मकर्तृत्वाद् बद्धः। यश्च तादृशं तत्त्वं साक्षात्कृत्य तादृशकर्मविमुखः स मुक्तः। बद्ध इव मुक्तोऽपि यदि निरन्वयं नश्यत्येव तदा कुतः कोऽपि देहो मुक्तये तत्त्वसाक्षात्काराय वैषयिकं सुखमुपेक्षेत इत्यपि न शङ्कनीयम्, अतिरिक्तात्मवादेऽपि मुक्तात्मनो मृतोपमतया तादृश्याः शङ्कायाः सम्भवात्। देहगतानुभवजन्यं संस्कारं देहकृतकर्मजन्यमदृष्टं च वहतो नित्यस्य मनसः सम्बन्धेन नवनवेषु देहेषु पूर्वपूर्वदेहैरनुभूतस्यार्थस्य स्मरणं कृतकर्मणां फलभोगंचोपपाद्य देहात्मवादस्थापनया न कोऽपि लाभः इत्यपि वचो नोचितम्। न्यायवैशेषिकनये नित्यानां विभूनामनन्तजीवात्मनां स्वीकारेण तदपेक्षया देहात्मवादे बहुलाघवात्। अतिरिक्तात्मवादे च विभूनां नित्यानाञ्च जीवात्मनामनन्तैः मूर्तद्रव्यैः अनन्तैः कालक्षणैश्च सहानन्तसम्बन्धानां तदुत्त्पत्यादीनाञ्च कल्पनीयतया बहुगौरवात्। किञ्चातिरिक्तात्मवादे प्राणिनां पूर्वार्जितकर्मादृष्टतन्त्रतया स्वस्थितिपरिवर्तनेऽस्वातन्त्र्येण परैः क्रियमाणस्यशोषणस्योत्पीडनस्य च मौनभावेनाभ्युपगमो दुर्निवारः, विषमायाः सामाजिक्या आर्थिक्याश्च व्यवस्थायाः प्रजासुखसौविध्योदासीनस्य क्रूरस्य शासनतन्त्रस्य वा उन्मूलने शोषितस्य पीडितस्य च समुदायस्य प्रवृत्तिः दुर्घटा, किन्तु देहात्मवादे नैषा स्थितिः, यतो देहात्मवादे मनुष्यस्यैष बोधः सुकरो यत् स इदम्प्रथमतया उत्पन्नः, नास्ति तस्य किमपि पूर्वकृतमीदृशं कर्म यदनुरोधात् तेन परैः क्रियमाणं शोषणमुत्पीडनञ्च स्वकर्मफलं