________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 175 अयमाशयः- सांख्यदर्शने इन्द्रियाणां ज्ञानकर्मरूपप्रयोजनभेदेन द्विविधतया उभयविधेन्द्रियाणां सहकारितया यथा मनः ज्ञानेन्द्रियकर्मेन्द्रियोभयात्मकमुच्यते। तथैव बुद्ध्यादेः देहादिगुणत्वे मनः बाह्यद्रव्यगुणग्राहकतया बहिरिन्द्रियं शरीराभ्यन्तरस्थितया अन्तरिन्द्रियञ्च वक्तुं शक्यम्।शरीरस्य ज्ञानादिमत्वे रूपादयो यथा अन्येन दृश्यन्ते तथैव तस्य ज्ञानादयोऽपि अन्येन अनुभूयरेन् इत्यपि न शङ्कयम्।एकशरीरगतस्य रूपादेःअन्यशरीरस्थचक्षुरादिभिः सन्निकृष्टत्वेन अन्येन तद्ग्रहणसम्भवेऽपि एकशरीरगतस्य ज्ञानादेः अन्यशरीरस्थेन अणुना मनसा असन्निकृष्टतया उक्तापत्त्यसम्भवात्। प्रत्यक्षानुभवस्य इन्द्रियसन्निकृष्टमात्रविषयकत्वात्। शरीरस्य ज्ञानादिमत्त्वे बाल्ये अनुभूतस्य वार्धक्ये स्मरणानुपपत्तिः बालवृद्धशरीरयोः भिन्नतया बालशरीरानुभवजन्यसंस्कारस्य वृद्धशरीरे अभावात् इत्येषापि शङ्का नोचिता। शरीरात्मवादे शरीरगतेनानुभवेन संस्कारोत्पत्तेः मनसि स्वीकारेण बालशरीरगतमनसो वृद्धशरीरेऽपि सत्त्वेन मनोनिष्ठसंस्कारमहिम्ना बाल्येऽनुभूतस्य वृद्धशरीरेऽपि स्मरणस्योत्पत्तिसम्भवात्। देहात्मवादे अनुभवस्य संस्कारं प्रति स्वाश्रयविजातीयसंयोगसम्बन्देन संस्कारस्य च स्मृति प्रति स्वाश्रयविजातीयसंयोगसम्बन्धेन हेतुत्वाभ्युपगमात्। इन्द्रियैः सह शरीरावयवैः वा सह मनसो यः संयोगः स न मनोदेहसंयोगगतसंयोगत्वव्याप्यवैजात्यभाजनम्। अतो न इन्द्रियेषु शरीरावयवेषु वा संस्कारस्य स्मृतेर्वा उत्पत्त्यापत्तिः। वर्तमानशरीरसहयोगिनो मनसःतच्छरीरजन्यादृष्टवशाद् उत्पन्ने नितान्तं नूतनबालशरीरेऽपि विजातीयसंयोगेन प्रविष्टतया तत्रापि पूर्वशरीरानुभूतार्थस्य स्मरणोत्पत्तौ बाधकाभावेन सद्यो जातस्य शिशोः स्तन्यपाने प्रवृत्तिरपि निर्बाधा, पूर्वशरीरस्थमनसः पूर्वशरीरगतस्तन्यपानेष्टसाधनताऽनुभवजन्यसंस्कारवतः शिशुशरीरे अनुप्रविष्टतया तनिष्ठोक्तसंस्कारमहिम्ना तत्र स्तन्यपानेष्टसाधनता स्मरणस्य निरुपद्रवत्वात्। देहात्मवादे पूर्वशरीरेणानुभूतार्थस्य उत्तरशरीरेण स्मृतेरुपगमे चैत्रेणानुभूतस्य मैत्रे स्मरणापत्तिरित्यपि नापादयितुं शक्यं, चैत्रानुभवजन्यसंस्कारस्य चैत्रमनस्येव सत्त्वात् तस्य च मैत्रशरीरेऽसत्त्वात्। वर्तमानदेहस्वरूप आत्मा आजीवनं विविधेषु कर्मसु व्यापृतो भवति, न च समेषां कर्मणां फलं लभते।मृते तस्मिन् तदभुक्तफलककर्मणां वैयर्थ्यरूपं कृतहानं