________________ 172 गद्यसंग्रहः आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् न्यायशास्त्रीयविचारपद्धत्या देहात्मवादस्य सम्भाव्यता (विषयोऽयं भारतीयदार्शनिकानुसन्धानपरिषदा सारनाथे समायोजितायां न्यायपण्डितगोष्ठ्याम् आचार्यबदरीनाथशुक्लेन प्रस्तुतो विद्वद्भिः साभिनिवेशं. सम्यक् चर्तितश्च) न्यायवैशेषिकशास्त्रयोः प्रामणिकग्रन्थानां पर्यालोचनेन आत्मनो विषये एष निष्कर्षः प्राप्यते यत् आत्मा क्षित्यप्तेजोमरुद्व्योमदिक्कालमनोभ्यो भिन्नं नवमं द्रव्यम्। स च द्विविधः - जीवात्मा परमात्मा च। तत्र जीवात्मा प्रतिशरीरं भिन्नः शरीरेन्द्रियमनःप्राणेभ्यो व्यतिरिक्तः सर्वं मूर्तद्रव्यसंयोगी कर्तृत्वभोक्तृत्वाश्रयः कृत्स्नैर्मूर्तद्रव्यैः संयुज्यमानोऽपि पूर्वार्जितादृष्टवशात् येन देहे न सह विजातीयसंयोगलक्षणं भोगनियामकसम्बन्धं लभते, तेनैव देहेन पूर्वकर्मणाम् उच्चावचानि सुखदुःखात्मकफलानि भुङ्क्ते। नवनवानि च कर्माणि कुर्वन् पुण्यपापापरपर्याय धर्माधर्मयोः स्वकीयं कोषम्वर्द्धयते। अभिनवैः अनुभवैः उत्पाद्यमानं संस्कारराशिञ्च उपचिनुते। सर्वेष्वेषु कर्मसु तदीयादृष्टाकृष्टं मनः तस्य साचिव्यं बिभर्ति। जीवात्मा हि तन्नये ज्ञानेच्छाद्वेषप्रयत्नधर्माधर्मभावनासुखदुः खात्मकानाम् नवविशेषगुणानां संख्यापरिमाणपृथक्त्वसंयोगविभागाभिधानाम् पञ्चसामान्यगुणानाञ्चाश्रयः, स्वकीयकर्मानुसारेण विविधासु योनिषु जायते। . मनुष्यशरीरेण च स्वात्मतत्त्वसाक्षात्कारमासाद्य अपवर्गापरनाम्नो निः श्रेयसस्याधिकारी देहि-प्राणि-जीवप्रभृति शब्दैः व्यपदेश्यश्च। परमात्मा पुनः जीवात्मभ्यो भिन्नः, अद्वितीयः, जगत्कर्ता, वेद प्रणेता, स्वोपासनया च जीवेभ्यो भौमदिव्यसुखप्रदाता, जीवानाञ्च तदर्जितकर्मफलभोगे मोक्षलाभेचतेषां सहायक: नित्यज्ञानेच्छाप्रयत्नानां संख्यापरिमाणपृथक्त्वसयोगविभाग-सहितानां नवगुणानामाधारः। ईश्वर-प्रभु-भगवत्प्रभृतिशब्दैः व्यपदेश्यः। सृष्टिरक्षासंहारकर्मानुरोधेन ब्रह्मविष्णुशङ्करसंज्ञाभिः बोध्यश्च। बाल्ये अनुभूतस्य वार्धक्ये स्मरणानुपपत्या मृतदेहे च अविद्यमानतया ज्ञानं न देहाश्रितम्। ज्ञानमूलकत्वादेव अन्येऽपि विशेषगुणा: न देहाश्रिता। एकेन इन्द्रियेण