________________ प्राक्तनं निवेदनम् प्रस्तुतदार्शनिकग्रन्थसंग्रहो दिल्लीस्थितायाः साहित्य-अकादेमी नाम्ना प्रसिद्धायाः साहित्यसंस्थाया आमन्त्रणमाधृत्य विहितः। अस्मिन् भारतस्य प्रमुखाणां संस्कृतभाषया लिखितानां दर्शनोत्कृष्टग्रन्थानां तादृशि गद्यानि संकलितानि येषां वाचने कष्टं श्रवणेकर्णकटुता चिन्तने मानस: क्लेशश्च नानुभूयेरन्। संकलने इदमपि ध्यातं यत् संगृहीतगद्यानां प्रतिपाद्यो विषयस्तद्भागादेवावगम्येत, तदवगतये ग्रन्थस्य भागान्तरं विशेषजिज्ञासानुदये नापेक्ष्येत, प्रतिगद्यशीर्षके तत्प्रतिपाद्यो विषयश्च संकेत्येत येन तं संक्षेपतो विज्ञायाध्येतारः पूर्णगद्याध्ययने सोत्कण्ठं प्रवर्तेरन्। गद्यानामुपन्यासक्रम इतिहासविदां दृष्टिं नापेक्ष्य दशमशताब्द्याः प्रसिद्धस्य श्रीमत उदयनाचार्यस्य "जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः। ह्रासदर्शनतोह्रासः सम्प्रदायस्य मीयताम्" इति वचसा व्यज्यमानां "मानवचरित्रे आध्यात्मिकताक्षेत्रेचदेशोऽयमुत्तरोत्तरमपचीयमानो विद्यत" इति भारतीयमान्यतां स्वीकृत्य कृतो यः सम्भवतो बहुभ्यो न रोचेत। अत्र मया आत्मनो रुचिरेव प्रधानीकृता। एतदर्थं विद्वांसः क्षमादानार्थ साञ्जलिबन्धं प्रार्थ्यन्ते। संगृहीतानि गद्यानि नैगद्येन बुद्धिमतोऽध्येतॄन् स्वार्थमवबोधयितुं स्वयं सक्षमाणीति तदर्थं कञ्चन विस्तृतं परिचयं पार्थक्येन प्रदेयतयाऽनतिप्रयोजनकं मन्यमानस्तेभ्यो विरतोऽभूवम्। निर्दिष्टां भारतीयमान्यतामनुसृत्य कृतो गद्यसंग्रहोपन्यासक्रमो वक्ष्यमाणो विद्यते: 1. उपनिषद्भ्यः 2. वेदान्तस्य प्रमुखशाखानां विशिष्टग्रन्थतः 3. प्रत्यभिज्ञादर्शनग्रन्थतः 4. सांख्ययोगग्रन्थतः 5. न्यायवैशेषिकग्रन्थतः 6. पूर्वमीमांसाग्रन्थतः 7. जैनदर्शनग्रन्थतः 8. बौद्धदर्शनग्रन्थतः