________________
लोकोत्तमो निस्प्रतिमस्त्वमेव, त्वं शाश्वतं मंगलमप्यधीश । त्वामेकमर्हन् ! शरणं प्रपद्ये, सिद्धर्षि - सद्धर्ममयस्त्वमेव ||१||
त्वं मे माता पिता नेता, देवो धर्मो गुरुः परः । प्राणाः स्वर्गोऽपवर्गश्च सत्त्वं गतिर्मतिः ॥ २ ॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च ॥ ३॥
यत्किश्चित्कुर्महे देव, सदा सुकृतदुष्कृतम् । तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन || ४ | • मुह्यतिगुह्य गोप्ता त्वं, गुहाणास्मत्कृतं जपम् । सिद्धिः श्रयति मां येन त्वत्प्रसादात्त्वयि स्थितम् ||५|| इति श्री वर्धमानजिननाममन्त्रस्तोत्रं समाप्तम् । प्रतिष्ठायां शांति विधौ पठितं 'महासुखाय स्यात् । इति शक्रस्तव: ।
१. इतीमं पूर्वोक्तं इन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं सर्वपाप निवारणं, सर्वपुण्य-कारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं, अनेक सम्यग्द्दष्टि, भद्रक-देवता-शत- सहस्त्र - शुश्रुषितं भवान्तरकृता ऽसंख्य
पुण्य प्राप्यं सम्यग् जपतां पठतां गुणयतां, श्रुण्वतां समनुप्रेक्षमाणानां भव्यजीवानां, चराचरेऽपि (जीवलोके) सस्तु तन्नास्ति यत्करतलप्रणयि न भवतीति । किं च -
ARTIC
२. इतीमं पूर्वोक्तं इन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रद, सर्व पाप निवारणं, सर्व पुण्य कारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक सम्यग्द्दष्टि, भद्रक-देवता- शतसहस्त्र-शुश्रुषितं भवान्तरकृताऽसंख्य
18