________________
कलरिभितधुरगान्धर्वतूर्ययोषिद्विभूषणषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥ स्नानाङ्गरागवर्तिकवर्णकधूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति । मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥ निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ यद्वत्तुरगः सत्स्वप्याभरणविभूषेष्वनभिषक्तः । तद्वदुपग्रहवानपि न संगमुपयाति निर्ग्रन्थः ॥
“उक्तं च वाचकमुख्यैरुमास्वातिपादैः कृपणऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद् दीयते कृपार्थादनुकम्पा तद् भवेद् दानम् ॥ अभ्युदये व्यसने वा यत् किञ्चिद् दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमते मुनिभिर्दानं न मोक्षाय ॥
—
नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद् दीयते यशोऽर्थं गर्वेण तु तद् भवेद् दानम् ॥
हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद् दीयते हि तेषां तज्जानीयादधर्माय ॥
૮૫
-
प्रशमरतिप्रकरण
स्थानां वृत्त
ઉપરનાં પદ્યો પરથી તેમની કાવ્યશૈલીનો પણ મહદંશે ક્યાસ નીકળી શકે છે. તે श्रीमद्दभगवद्दगीता समान आर्ष, प्रौढ, गंभीर, अंतिपूत, अर्भस्वी, अने गरिमायुक्त ४३२ छे, प જેમ ગીતાને ભાગ્યે જ ઉત્તમ કવિતારૂપે ઘટાવી શકાય તેવું ઉમાસ્વાતિની, મોટે ભાગે આર્યાવૃત્તમાં