________________
८६
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूष
संपूर्णमण्डलशशाङ्ककलाकलाप
शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितारित्रजगदीश्वर ! नाथमेकम्
कस्तान् निवारयति सञ्चरतो यथेष्टम् ॥ १४ ॥
चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताऽचलेन
किं मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५ ॥ निर्धूमवर्तिरपवर्जिततैलपूरः
कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानाम्
दीपोsपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥
नास्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः
सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ १७ ॥
नित्योदयं दलितमोहमहान्धकारम्
गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ १८ ॥
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा ? युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! निष्पन्नशालिवनशालिनि जीवलोके
कार्यं कियज्जलधरैर्जलभारनम्रैः ॥ १९ ॥
ज्ञानं यथा त्वयि विभाति कृताऽवकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति तथा महत्त्वं
नैवं तु काचशकले किरणाऽऽकुलेऽपि ॥ २० ॥