SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ६२ न चाम्भोधिराप्लावयेद् भूतधात्रीं समाश्वासयत्येव कालेऽम्बुवाहः यदुद्भूतसद्धर्मसाम्राज्यवश्यः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २० ॥ बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा न तिर्यग् ज्वलत्येव यद् ज्वालजिह्वो यदूर्ध्वं न वाति प्रचण्डो नभस्वान् । स जागर्ति यर्द्धमराजप्रतापः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २१ ॥ इमौ पुष्पदन्तौ जगत्यत्र विश्वो पकाराय दिष्ट्योदयेते वहन्तौ । उरीकृत्य यत् तुर्यलोकोत्तमाज्ञां स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २२ ॥ अवत्येव पातालजम्बालपातात् विधायापि सर्वज्ञलक्ष्मीनिवासान् । यदाज्ञा विधित्साश्रिताऽनङ्गभाजः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २३ ॥ सुपर्वद्रुचिन्तामणीकामधेनु प्रभावा नृणां नैव दूरे भवन्ति । चतुर्थे यदुत्थे शिवे भक्तिभाजां स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २४ ॥ कलिव्यालवह्निग्रहव्याधिचौर व्यथावारणव्याघ्रवीथ्यादिविघ्नाः । यदाज्ञाजुषां युग्मिनां जातु न स्युः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २५ ॥ अबन्धस्तथैकः स्थितो वाऽक्षयी वा ऽप्यसद् वा मतो यैर्जडैः सर्वथाऽऽत्मा । न तेषां विमूढात्मनां गोचरो यः स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ २६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy