________________
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने गाथा ११
श्रीसमवसरणाध्ययनम् ___ स्वयं कृतं नाऽन्यकृतश दुःखम् माहुर्विद्याचरणश मोक्षम् ।।
अन्वयार्थ - (ते समणा माहणा य) वे श्रमण यानी शाक्यभिक्षु और माहन अर्थात् ब्राह्मण (लोग समिच्च) अपने अभिप्राय के अनुसार लोक को जानकर (तहा तहा एवमक्खंति) कर्मानुसार फल प्राप्त होना बताते हैं । (सयं कडं णन्नकडं च दुक्खं) तथा वे यह भी कहते हैं कि दुःख अपने करने से होता है, दूसरे के करने से नहीं होता है (विज्जाचरणं पमोक्खं आहेसु) परन्तु तीर्थङ्करों ने ज्ञान और क्रिया से मोक्ष कहा है।
भावार्थ- शाक्य भिक्षु और ब्राह्मण आदि अपने अभिप्राय के अनुसार लोक को जानकर क्रिया के अनुसार फल होना बताते हैं और वे यह भी कहते हैं कि दुःख अपने करने से होता है, दूसरे के करने से नहीं होता है परन्तु तीर्थङ्करों ने ज्ञान और क्रिया से मोक्ष कहा है।
टीका - ये क्रियात एव ज्ञाननिरपेक्षायाः दीक्षादिलक्षणाया मोक्षमिच्छन्ति ते एवमाख्यान्ति, तद्यथा - "अस्ति माता - पिता अस्ति सुचीर्णस्य कर्मणः फल मिति, किं कृत्वा त एवं कथयन्ति ? - क्रियात एव सर्वं सिध्यतीति स्वाभिप्रायेण "लोक" स्थावरजङ्गमात्मकं "समेत्य" ज्ञात्वा, किल वयं यथावस्थितवस्तुनो ज्ञातार इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति न कथझिन्नास्तीति. कथमाख्यान्ति ? - "तथा - प्रकारेण, यथा - यथा क्रिया तथा - तथा स्वर्गनरकादिकं फलमिति, ते च श्रमणास्तीर्थिका ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति, किञ्च - यत् किमपि संसारे दुःखं तथा सुखं च तत्सर्वं स्वयमेवात्मना कृतं, नान्येन कालेश्वरादिना, न चैतदक्रियावादे घटते, तत्र ह्यक्रियत्वादात्मनोऽकृतयोरेव सुखदुःखयोः संभवः स्यात्, एवं च कृतनाशाकृताभ्यागमौ स्याताम्, अत्रोच्यते, सत्यमस्त्यात्मसुखदुःखादिकं, न त्वस्त्येव, तथाहि - यद्यस्त्येव इत्येवं सावधारणमुच्यते ततश्च न कथञ्चिन्नास्तीत्यापन्नम्, एवं च सति सर्वं सर्वात्मकमापद्येत, तथा च सर्वलोकस्य व्यवहारोच्छेदः स्यात्, न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात्, न चोपायमन्तरेणोपेयमवाप्यत इति प्रतीतं, सर्वा हि क्रिया ज्ञानवत्येव फलवत्युपलक्ष्यते, उक्तञ्च - “पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजप्ट अन्नाणी किं काही, किं वा नाही छेयपावयं ।।१।।
इत्यतो ज्ञानस्यापि प्राधान्यं, नापि ज्ञानादेव सिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसिद्धरनुपपत्तेरित्यालोच्याह"आहंसु विज्जाचरणं पमोक्खं'ति, न ज्ञाननिरपेक्षायाः क्रियायाः सिद्धिः, अन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य पङ्गोरिव, इत्येवमवगम्य "आहुः" उक्तवन्तः, तीर्थकरगणधरादयः, कमाहुः ?, मोक्षं, कथं?, विद्या च - ज्ञानं चरणं च - क्रिया ते द्वे अपि विद्येते कारणत्वेन यस्येति विगृह्यार्शआदित्वान्मत्वर्थीयोऽच्, असौ विद्याचरणो - मोक्षः - ज्ञानक्रियासाध्य इत्यर्थः, तमेवं-साध्यं - मोक्षं प्रतिपादयन्ति । यदिवाऽन्यथा पातनिका, केनैतानि समवसरणानि प्रतिपादितानि ? यच्चोक्तं यच्च वक्ष्यते इत्येतदाशङ्कयाह - "ते एवमक्खंती" त्यादि, अनिरुद्धा - क्वचिदप्यस्खलिता प्रज्ञायतेऽनयेति प्रज्ञा-ज्ञानं येषां तीर्थकृतां तेऽनिरुद्धप्रज्ञाः, त "एवम्" अनन्तरोक्तया प्रक्रियया सम्यगाख्यान्ति - प्रतिपादयन्ति "लोकं" चतुर्दशरज्ज्वात्मकं स्थावरजङ्गमाख्यं वा "समेत्य" केवलज्ञानेन करतलामलकन्यायेन ज्ञात्वा तथागताः - तीर्थकरत्वं केवलज्ञानं च गताः, "श्रमणाः" साधवो "ब्राह्मणाः" संयतासंयताः, लौकिकी वा वाचोयुक्तिः, किम्भूतास्त एवमाख्यान्तीति सम्बन्धः, तथा तथेति वा क्वचित्पाठः, यथा-यथा समाधिमार्गो व्यवस्थितस्तथा तथा कथयन्ति, एतच्च कथयन्ति - यथा यत्किञ्चित्संसारान्तर्गतानामसुमतां दुःखम् - असातोदयस्वभावं, तत्प्रतिपक्षभूतं च सातोदयापादितं सुखं, तत्स्वयम् - आत्मना कृतं, नान्येन कालेश्वरादिना कृतमिति, तथा चोक्तम् - "सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य णिमित्तमित्तं परो होइ ॥१॥" एतच्चाहुस्तीर्थकरगणधरादयः, तद्यथा - विद्या - ज्ञानं चरणं - चारित्रं क्रिया तत्प्रधानो मोक्षस्तमुक्तवन्तो, न ज्ञानक्रियाभ्यां परस्परनिरपेक्षाभ्यामिति, तथा चोक्तम् -
1. प्रथम ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किंवा ज्ञास्यति छेकपापकं ॥१॥ ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः।
उपघातैव विघ्नेछ, ज्ञानघ्नं कर्म बध्यते ॥२॥ केषुचिदादर्शेषु दृश्यते श्लोकोऽयमशुभक्रियाया ज्ञानपूर्विकायाः फलवत्ताज्ञापनाय न तदा विरोधः । 2. "प्रणीतानि" इत्यपि । 3. नेदं प्रत्यन्तरे । 4. सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपार्क । अपराधेषु गुणेषु च निमित्तमात्र परो भवति ॥१॥
५२३