________________
-
-
सूत्रकृताङ्गेभाषानुवादसहिते द्वादशमध्ययने गाथा ५
श्रीसमवसरणाध्ययनम् अन्वयार्थ - (गिरा गहीए सम्मिस्समावं) अपनी वाणीद्वारा स्वीकार किये हुए पदार्थ का निषेध करते हुए लोकायतिक आदि मिश्र पक्ष को अर्थात् पदार्थ की सत्ता और असत्ता दोनों से मिश्रित विरुद्ध पक्ष को स्वीकार करते हैं । (से अणाणुवाई मुम्मुई होइ) वे स्याद्वादियों के वचन का अनुवाद करने में भी असमर्थ होकर मूक हो जाते हैं । (इमं दुपक्खं इममेगपक्खं छलायतणं च कम्मं आहेसु) वे अपने वचन को प्रतिपक्ष रहित और दूसरे मत को प्रतिपक्ष सहित बताते हुए, स्याद्वादियों के साधनों का खण्डन करने के लिए वाक्छल का प्रयोग करते हैं।
भावार्थ - पूर्वोक्त नास्तिक गण पदार्थों का प्रतिषेध करते हुए उनका अस्तित्व स्वीकार कर बैठते हैं । वे स्याद्वादियों के वचनों का अनुवाद करने में भी असमर्थ होकर मूक हो जाते हैं । वे अपने मत को प्रतिपक्ष रहित और परमत को प्रतिपक्ष के सहित बताते हैं । वे स्याद्वादियों के साधनों को खण्डन करने के लिए वाक्छल का प्रयोग करते हैं।
टीका - स्वकीयया गिरा - वाचा स्वाभ्यपगमेनैव "गहीते" तस्मिन्नर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य गिरा प्रतिषेधं कर्वाणाः "सम्मिश्रीभावम" अस्तित्वनास्तित्वाभ्यपगमं ते लोकायतिकादयः कर्वन्ति. वाशब्दात्प्रतिषेधे प्रतिपाद्येऽस्तित्वमेव प्रतिपादयन्ति, तथाहि - लोकायतिकास्तावत्स्वशिष्येभ्यो जीवाद्यभावप्रतिपादक शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽत्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो व्यत्ययो वा । बौद्धा अपि मिश्रीभावमेवमुपगताः, तद्यथा -
__ “गन्ता च नास्ति कधिद्वतयः षड् बौन्दशासने प्रोकाः ।
गम्यत इति च गतिः स्याच्छृतिः कथं शोभना बौन्दी ? ||१|| तथा - "कर्म (च) नास्ति फलं चास्ती" त्यसति चात्मनि कारके कथं षड्गतयः ?, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिमत्त्वात् क्षणस्य चास्थितत्वेन क्रियाऽभावान्न नानागतिसंभवः, सर्वाण्यपि कर्माण्यबन्धनानि प्ररूपयन्ति स्वागमे, तथा पञ्च जातकशतानि च बुद्धस्योपदिशन्ति, तथा - मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य । अर्हद्वधं च कृत्वा स्तूपं भित्वा च पते ॥२॥
आवीचिनरकं यान्ति । एवमादिकस्यागमस्य सर्वशून्यत्वे प्रणयनमयुक्तिसंगतं स्यात्, तथा जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानि च न स्युः, एष एव च नानाविधकर्मविपाको जीवास्तित्वं कर्तृत्वं कर्मवत्त्वं चावेदयति, तथा "गान्धर्वनगरतुल्या मायास्वप्नोपपातघनसदृशाः । मृगतृष्णानीहाराम्बुचन्द्रिकालातचक्रसमाः ||३||
इति भाषणाच्च स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । यदिवा नानाविधकर्मविपाकाभ्युपगमात्तेषां व्यत्यय एवेति, तथा चोक्तम् - यदि शून्यस्तव पक्षी मत्पक्षनिवारकः कथं भवति ? | अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासी ॥४॥
इत्यादि, तदेवं बौद्धाः पूर्वोक्तया नीत्या मिश्रीभावमुपगता नास्तित्वं प्रतिपादयन्तोऽस्तित्वमेव प्रतिपादयन्ति।। तथा सांख्या अपि सर्वव्यापितया अक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगान्मोक्षसद्धावं प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेण बन्धमोक्षौ घटेते, वाशब्दादक्रियत्वे प्रतिपाद्ये व्यत्यय एव - सक्रियत्वं तेषां स्ववाचा प्रतिपद्यते । तदेवं लोकायतिकाः सर्वाभावाभ्युपगमेन क्रियाऽभावं प्रतिपादयन्ति बौद्धाश्च क्षणिकत्वात्सर्वशून्यत्वाच्चाक्रियामेवाभ्युपगमयन्तः स्वकीयागमप्रणयनेन चोदिताः सन्तः सम्मिश्रीभावं स्ववाचैव प्रतिपद्यन्ते, तथा सांख्याश्चाक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षसद्धावं च स्वाभ्युपगमेनैव सम्मिश्रीभावं व्रजन्ति व्यत्ययं च एतत्पा यदि वा बौद्धादिः कश्चित्स्याद्वादिना सम्यग्घेतुदृष्टान्तैर्व्याकुलीक्रियमाणः सन् सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया "मुम्मुई होइ" त्ति गद्गदभाषित्वेनाव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाच्चायमर्थो द्रष्टव्यः, तद्यथा - मूकादपि मूको मूकमूको भवति, एतदेव दर्शयति - स्याद्वादिनोक्तं साधनमनुवदितुं शीलमस्येत्यनुवादी तत्प्रतिषेधादननुवादी,
५१३