SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ परसमयवक्तव्यताधिकारः सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा ६ पृथक् हो जाता है, यह अर्थ है ॥५॥ - अध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह - - प्रथम अध्ययन का अर्थाधिकार परसमयवक्तव्यता भी है । यह अध्ययन के अर्थाधिकार में कहा है। अतः स्वसमय कहने के पश्चात्, अब परसमय बताने के लिए शास्त्रकार कहते हैं - एए गंथे विउक्कम्म, एगे समण-माहणा। अयाणंता विउस्सित्ता सत्ता कामेहि माणवा ॥६॥ छाया - एतान् ग्रन्थान् व्युत्क्रम्य एके श्रमणब्राह्मणा : । अजानन्तो व्युत्सिताः सक्ताः कामेषु मानवाः।। व्याकरण - (एए गंथे) कर्म (विउक्कम्म) पूर्वकालिक क्रिया । (एगे समण-माहणा) कर्ता (अयाणंता) कर्ता का विशेषण (विउस्सित्ता) कर्ता का विशेषण (सत्ता) कर्ता का विशेषण (कामेहि) अधिकरण (माणवा) कर्ता । अन्वयार्थ - (एगे समण-माहणा) कोई कोई शाक्यभिक्षु और बृहस्पतिमतानुयायी ब्राह्मण, (एए गंथे) इन ग्रंथों को (विउक्कम्म) छोड़कर (विउस्सित्ता) स्वसिद्धान्तों में अत्यंत बद्ध हैं । (अयाणंता) ये अज्ञानी (माणवा) मनुष्य (कामेहि) कामभोग में (सत्ता) आसक्त हैं। भावार्थ - कोई शाक्यभिक्षु और बृहस्पतिमतानुयायी ब्राह्मण इन ग्रन्थों को छोड़कर अपने सिद्धान्तों में अत्यंत बद्ध हैं । वे अज्ञानी मनुष्य, कामभोग में आसक्त हैं। टीका - एतान् अनन्तरोक्तान् ग्रन्थान् व्युत्क्रम्य परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः' बद्धाः एके, न सर्वे, इति सम्बन्धः । ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात् । अनन्तरग्रन्थेषु चायमर्थोऽभिहितः, तद्यथाजीवास्तित्वे सति ज्ञानावरणीयादि कर्म बन्धनम्, तस्य हेतवो मिथ्यात्वाविरतिप्रमादादयः परिग्रहारम्भादयश्च, तत् त्रोटनं च सम्यग्दर्शनाद्युपायेन, मोक्षसद्भावश्चेत्येवमादिकः, तदेवमेके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणा: 'एतान्' अर्हदुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानानाः, विविधम्-अनेकप्रकारम् उत्-प्राबल्येन सिताः बद्धाः स्वसमयेष्वभिनिविष्टाः। तथा च शाक्या एवं प्रतिपादयन्ति, यथा "सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किन्तु विज्ञानमेवैकं विवर्तत इति, क्षणिकाः सर्वसंस्कारा इत्यादि ।" तथा साङ्ख्या एवं व्यवस्थिताः "सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहकारस्तस्माद् गणश्च षोडशकः तस्मात् षोडशकादपि पञ्चभूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि ।" वैशषिकाः पुनराहुः- "द्रव्यगुणकर्मसामान्यविशेषसमवायाः षट् पदार्था' इति । तथा नैयायिका:- प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानानिःश्रेयसाधिगम इति व्यवस्थिताः । तथा मीमांसका:-चोदनालक्षणो धर्मो न च सर्वज्ञः कश्चिद् विद्यते मुक्त्यभावश्चेत्येवमाश्रिताः । चार्वाकास्त्वेवमभिहितवन्तो-यथा नास्ति कश्चित् परलोकयायी भूतपञ्चकाद् व्यतिरिक्तो जीवाख्यः पदार्थो, नाऽपि पुण्यपापे स्त इत्यादि । एवं चाङ्गीकृत्यैते लोकायतिकाः 'मानवाः' पुरुषाः 'सक्ता' गृद्धा अध्युपपन्नाः कामेषु, इच्छामदनरूपेषु, तथा चोचुः"एतावानेव पुरुषो यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्न्यबहुश्रुताः ||१||" ___ "पिब खाद च साधु शोभने ! यदतीतं वरगात्रि ! तल ते । नहि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम्।।२।। एवं ते तन्त्रान्तरीयाः स्वसमयार्थवासितान्तःकरणाः सन्तो भगवदर्हदुक्तं ग्रन्थार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रन्थेषु सिताः- संबद्धाः कामेषु च सक्ता इति ॥६।। 1. परिखाजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा ।
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy